ऋग्वेद · अध्याय 7.092
आ वायो भूष शुचिपा उप नः सहस्रं ते नियुतो विश्ववार ।
उपो ते अन्धो मद्यम् अयामि यस्य देव दधिषे पूर्वपेयम् ॥
प्र सोता जीरो अध्वरेष्व् अस्थात् सोमम् इन्द्राय वायवे पिबध्यै ।
प्र यद् वाम् मध्वो अग्रियम् भरन्त्य् अध्वर्यवो देवयन्तः शचीभिः ॥
प्र याभिर् यासि दाश्वांसम् अच्छा नियुद्भिर् वायव् इष्टये दुरोणे ।
नि नो रयिं सुभोजसं युवस्व नि वीरं गव्यम् अश्व्यं च राधः ॥
ये वायव इन्द्रमादनास आदेवासो नितोशनासो अर्यः ।
घ्नन्तो वृत्राणि सूरिभिः ष्याम सासह्वांसो युधा नृभिर् अमित्रान् ॥
आ नो नियुद्भिः शतिनीभिर् अध्वरं सहस्रिणीभिर् उप याहि यज्ञम् ।
वायो अस्मिन् सवने मादयस्व यूयम् पात स्वस्तिभिः सदा नः ॥
मूल पाठ: Ṛgveda-Saṃhitā · Edition: Theodor Aufrecht Die Hymnen des Rigveda. Mandala I-VI Bonn Mareus Theodor Aufrecht Die Hymnen des Rigveda. Mandala VII-X Bonn Mareus · Data entry Barend A. Van Nooten Gary B. Holland · GRETIL (Göttingen) · CC BY-NC-SA 4.0