भाषा

ENहिગુ
ग्रंथ पाठ

ऋग्वेद · अध्याय 7.094

7.094.01

इयं वाम् अस्य मन्मन इन्द्राग्नी पूर्व्यस्तुतिः ।
अभ्राद् वृष्टिर् इवाजनि ॥

7.094.02

शृणुतं जरितुर् हवम् इन्द्राग्नी वनतं गिरः ।
ईशाना पिप्यतं धियः ॥

7.094.03

मा पापत्वाय नो नरेन्द्राग्नी माभिशस्तये ।
मा नो रीरधतं निदे ॥

7.094.04

इन्द्रे अग्ना नमो बृहत् सुवृक्तिम् एरयामहे ।
धिया धेना अवस्यवः ॥

7.094.05

ता हि शश्वन्त ईळत इत्था विप्रास ऊतये ।
सबाधो वाजसातये ॥

7.094.06

ता वां गीर्भिर् विपन्यवः प्रयस्वन्तो हवामहे ।
मेधसाता सनिष्यवः ॥

7.094.07

इन्द्राग्नी अवसा गतम् अस्मभ्यं चर्षणीसहा ।
मा नो दुःशंस ईशत ॥

7.094.08

मा कस्य नो अररुषो धूर्तिः प्रणङ् मर्त्यस्य ।
इन्द्राग्नी शर्म यच्छतम् ॥

7.094.09

गोमद् धिरण्यवद् वसु यद् वाम् अश्वावद् ईमहे ।
इन्द्राग्नी तद् वनेमहि ॥

7.094.10

यत् सोम आ सुते नर इन्द्राग्नी अजोहवुः ।
सप्तीवन्ता सपर्यवः ॥

7.094.11

उक्थेभिर् वृत्रहन्तमा या मन्दाना चिद् आ गिरा ।
आङ्गूषैर् आविवासतः ॥

7.094.12

ताव् इद् दुःशंसम् मर्त्यं दुर्विद्वांसं रक्षस्विनम् ।
आभोगं हन्मना हतम् उदधिं हन्मना हतम् ॥

मूल पाठ: Ṛgveda-Saṃhitā · Edition: Theodor Aufrecht Die Hymnen des Rigveda. Mandala I-VI Bonn Mareus Theodor Aufrecht Die Hymnen des Rigveda. Mandala VII-X Bonn Mareus · Data entry Barend A. Van Nooten Gary B. Holland · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc