भाषा

ENहिગુ
ग्रंथ पाठ

ऋग्वेद · अध्याय 7.084

7.084.01

आ वां राजानाव् अध्वरे ववृत्यां हव्येभिर् इन्द्रावरुणा नमोभिः ।
प्र वां घृताची बाह्वोर् दधाना परि त्मना विषुरूपा जिगाति ॥

7.084.02

युवो राष्ट्रम् बृहद् इन्वति द्यौर् यौ सेतृभिर् अरज्जुभिः सिनीथः ।
परि नो हेळो वरुणस्य वृज्या उरुं न इन्द्रः कृणवद् उ लोकम् ॥

7.084.03

कृतं नो यज्ञं विदथेषु चारुं कृतम् ब्रह्माणि सूरिषु प्रशस्ता ।
उपो रयिर् देवजूतो न एतु प्र णः स्पार्हाभिर् ऊतिभिस् तिरेतम् ॥

7.084.04

अस्मे इन्द्रावरुणा विश्ववारं रयिं धत्तं वसुमन्तम् पुरुक्षुम् ।
प्र य आदित्यो अनृता मिनात्य् अमिता शूरो दयते वसूनि ॥

7.084.05

इयम् इन्द्रं वरुणम् अष्ट मे गीः प्रावत् तोके तनये तूतुजाना ।
सुरत्नासो देववीतिं गमेम यूयम् पात स्वस्तिभिः सदा नः ॥

मूल पाठ: Ṛgveda-Saṃhitā · Edition: Theodor Aufrecht Die Hymnen des Rigveda. Mandala I-VI Bonn Mareus Theodor Aufrecht Die Hymnen des Rigveda. Mandala VII-X Bonn Mareus · Data entry Barend A. Van Nooten Gary B. Holland · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc