ऋग्वेद · अध्याय 7.085
पुनीषे वाम् अरक्षसम् मनीषां सोमम् इन्द्राय वरुणाय जुह्वत् ।
घृतप्रतीकाम् उषसं न देवीं ता नो यामन्न् उरुष्यताम् अभीके ॥
स्पर्धन्ते वा उ देवहूये अत्र येषु ध्वजेषु दिद्यवः पतन्ति ।
युवं ताँ इन्द्रावरुणाव् अमित्रान् हतम् पराचः शर्वा विषूचः ॥
आपश् चिद् धि स्वयशसः सदःसु देवीर् इन्द्रं वरुणं देवता धुः ।
कृष्टीर् अन्यो धारयति प्रविक्ता वृत्राण्य् अन्यो अप्रतीनि हन्ति ॥
स सुक्रतुर् ऋतचिद् अस्तु होता य आदित्य शवसा वां नमस्वान् ।
आववर्तद् अवसे वां हविष्मान् असद् इत् स सुविताय प्रयस्वान् ॥
इयम् इन्द्रं वरुणम् अष्ट मे गीः प्रावत् तोके तनये तूतुजाना ।
सुरत्नासो देववीतिं गमेम यूयम् पात स्वस्तिभिः सदा नः ॥
मूल पाठ: Ṛgveda-Saṃhitā · Edition: Theodor Aufrecht Die Hymnen des Rigveda. Mandala I-VI Bonn Mareus Theodor Aufrecht Die Hymnen des Rigveda. Mandala VII-X Bonn Mareus · Data entry Barend A. Van Nooten Gary B. Holland · GRETIL (Göttingen) · CC BY-NC-SA 4.0