ऋग्वेद · अध्याय 7.083
युवां नरा पश्यमानास आप्यम् प्राचा गव्यन्तः पृथुपर्शवो ययुः ।
दासा च वृत्रा हतम् आर्याणि च सुदासम् इन्द्रावरुणावसावतम् ॥
यत्रा नरः समयन्ते कृतध्वजो यस्मिन्न् आजा भवति किं चन प्रियम् ।
यत्रा भयन्ते भुवना स्वर्दृशस् तत्रा न इन्द्रावरुणाधि वोचतम् ॥
सम् भूम्या अन्ता ध्वसिरा अदृक्षतेन्द्रावरुणा दिवि घोष आरुहत् ।
अस्थुर् जनानाम् उप माम् अरातयो ऽर्वाग् अवसा हवनश्रुता गतम् ॥
इन्द्रावरुणा वधनाभिर् अप्रति भेदं वन्वन्ता प्र सुदासम् आवतम् ।
ब्रह्माण्य् एषां शृणुतं हवीमनि सत्या तृत्सूनाम् अभवत् पुरोहितिः ॥
इन्द्रावरुणाव् अभ्य् आ तपन्ति माघान्य् अर्यो वनुषाम् अरातयः ।
युवं हि वस्व उभयस्य राजथो ऽध स्मा नो ऽवतम् पार्ये दिवि ॥
युवां हवन्त उभयास आजिष्व् इन्द्रं च वस्वो वरुणं च सातये ।
यत्र राजभिर् दशभिर् निबाधितम् प्र सुदासम् आवतं तृत्सुभिः सह ॥
दश राजानः समिता अयज्यवः सुदासम् इन्द्रावरुणा न युयुधुः ।
सत्या नृणाम् अद्मसदाम् उपस्तुतिर् देवा एषाम् अभवन् देवहूतिषु ॥
दाशराज्ञे परियत्ताय विश्वतः सुदास इन्द्रावरुणाव् अशिक्षतम् ।
श्वित्यञ्चो यत्र नमसा कपर्दिनो धिया धीवन्तो असपन्त तृत्सवः ॥
वृत्राण्य् अन्यः समिथेषु जिघ्नते व्रतान्य् अन्यो अभि रक्षते सदा ।
हवामहे वां वृषणा सुवृक्तिभिर् अस्मे इन्द्रावरुणा शर्म यच्छतम् ॥
अस्मे इन्द्रो वरुणो मित्रो अर्यमा द्युम्नं यच्छन्तु महि शर्म सप्रथः ।
अवध्रं ज्योतिर् अदितेर् ऋतावृधो देवस्य श्लोकं सवितुर् मनामहे ॥
मूल पाठ: Ṛgveda-Saṃhitā · Edition: Theodor Aufrecht Die Hymnen des Rigveda. Mandala I-VI Bonn Mareus Theodor Aufrecht Die Hymnen des Rigveda. Mandala VII-X Bonn Mareus · Data entry Barend A. Van Nooten Gary B. Holland · GRETIL (Göttingen) · CC BY-NC-SA 4.0