ऋग्वेद · अध्याय 7.077
उपो रुरुचे युवतिर् न योषा विश्वं जीवम् प्रसुवन्ती चरायै ।
अभूद् अग्निः समिधे मानुषाणाम् अकर् ज्योतिर् बाधमाना तमांसि ॥
विश्वम् प्रतीची सप्रथा उद् अस्थाद् रुशद् वासो बिभ्रती शुक्रम् अश्वैत् ।
हिरण्यवर्णा सुदृशीकसंदृग् गवाम् माता नेत्र्य् अह्नाम् अरोचि ॥
देवानां चक्षुः सुभगा वहन्ती श्वेतं नयन्ती सुदृशीकम् अश्वम् ।
उषा अदर्शि रश्मिभिर् व्यक्ता चित्रामघा विश्वम् अनु प्रभूता ॥
अन्तिवामा दूरे अमित्रम् उच्छोर्वीं गव्यूतिम् अभयं कृधी नः ।
यावय द्वेष आ भरा वसूनि चोदय राधो गृणते मघोनि ॥
अस्मे श्रेष्ठेभिर् भानुभिर् वि भाह्य् उषो देवि प्रतिरन्ती न आयुः ।
इषं च नो दधती विश्ववारे गोमद् अश्वावद् रथवच् च राधः ॥
यां त्वा दिवो दुहितर् वर्धयन्त्य् उषः सुजाते मतिभिर् वसिष्ठाः ।
सास्मासु धा रयिम् ऋष्वम् बृहन्तं यूयम् पात स्वस्तिभिः सदा नः ॥
मूल पाठ: Ṛgveda-Saṃhitā · Edition: Theodor Aufrecht Die Hymnen des Rigveda. Mandala I-VI Bonn Mareus Theodor Aufrecht Die Hymnen des Rigveda. Mandala VII-X Bonn Mareus · Data entry Barend A. Van Nooten Gary B. Holland · GRETIL (Göttingen) · CC BY-NC-SA 4.0