ऋग्वेद · अध्याय 7.076
उद् उ ज्योतिर् अमृतं विश्वजन्यं विश्वानरः सविता देवो अश्रेत् ।
क्रत्वा देवानाम् अजनिष्ट चक्षुर् आविर् अकर् भुवनं विश्वम् उषाः ॥
प्र मे पन्था देवयाना अदृश्रन्न् अमर्धन्तो वसुभिर् इष्कृतासः ।
अभूद् उ केतुर् उषसः पुरस्तात् प्रतीच्य् आगाद् अधि हर्म्येभ्यः ॥
तानीद् अहानि बहुलान्य् आसन् या प्राचीनम् उदिता सूर्यस्य ।
यतः परि जार इवाचरन्त्य् उषो ददृक्षे न पुनर् यतीव ॥
त इद् देवानां सधमाद आसन्न् ऋतावानः कवयः पूर्व्यासः ।
गूळ्हं ज्योतिः पितरो अन्व् अविन्दन् सत्यमन्त्रा अजनयन्न् उषासम् ॥
समान ऊर्वे अधि संगतासः सं जानते न यतन्ते मिथस् ते ।
ते देवानां न मिनन्ति व्रतान्य् अमर्धन्तो वसुभिर् यादमानाः ॥
प्रति त्वा स्तोमैर् ईळते वसिष्ठा उषर्बुधः सुभगे तुष्टुवांसः ।
गवां नेत्री वाजपत्नी न उच्छोषः सुजाते प्रथमा जरस्व ॥
एषा नेत्री राधसः सूनृतानाम् उषा उच्छन्ती रिभ्यते वसिष्ठैः ।
दीर्घश्रुतं रयिम् अस्मे दधाना यूयम् पात स्वस्तिभिः सदा नः ॥
मूल पाठ: Ṛgveda-Saṃhitā · Edition: Theodor Aufrecht Die Hymnen des Rigveda. Mandala I-VI Bonn Mareus Theodor Aufrecht Die Hymnen des Rigveda. Mandala VII-X Bonn Mareus · Data entry Barend A. Van Nooten Gary B. Holland · GRETIL (Göttingen) · CC BY-NC-SA 4.0