भाषा

ENहिગુ
ग्रंथ पाठ

ऋग्वेद · अध्याय 7.078

7.078.01

प्रति केतवः प्रथमा अदृश्रन्न् ऊर्ध्वा अस्या अञ्जयो वि श्रयन्ते ।
उषो अर्वाचा बृहता रथेन ज्योतिष्मता वामम् अस्मभ्यं वक्षि ॥

7.078.02

प्रति षीम् अग्निर् जरते समिद्धः प्रति विप्रासो मतिभिर् गृणन्तः ।
उषा याति ज्योतिषा बाधमाना विश्वा तमांसि दुरिताप देवी ॥

7.078.03

एता उ त्याः प्रत्य् अदृश्रन् पुरस्ताज् ज्योतिर् यच्छन्तीर् उषसो विभातीः ।
अजीजनन् सूर्यं यज्ञम् अग्निम् अपाचीनं तमो अगाद् अजुष्टम् ॥

7.078.04

अचेति दिवो दुहिता मघोनी विश्वे पश्यन्त्य् उषसं विभातीम् ।
आस्थाद् रथं स्वधया युज्यमानम् आ यम् अश्वासः सुयुजो वहन्ति ॥

7.078.05

प्रति त्वाद्य सुमनसो बुधन्तास्माकासो मघवानो वयं च ।
तिल्विलायध्वम् उषसो विभातीर् यूयम् पात स्वस्तिभिः सदा नः ॥

मूल पाठ: Ṛgveda-Saṃhitā · Edition: Theodor Aufrecht Die Hymnen des Rigveda. Mandala I-VI Bonn Mareus Theodor Aufrecht Die Hymnen des Rigveda. Mandala VII-X Bonn Mareus · Data entry Barend A. Van Nooten Gary B. Holland · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc