भाषा

ENहिગુ
ग्रंथ पाठ

ऋग्वेद · अध्याय 7.069

7.069.01

आ वां रथो रोदसी बद्बधानो हिरण्ययो वृषभिर् यात्व् अश्वैः ।
घृतवर्तनिः पविभी रुचान इषां वोळ्हा नृपतिर् वाजिनीवान् ॥

7.069.02

स पप्रथानो अभि पञ्च भूमा त्रिवन्धुरो मनसा यातु युक्तः ।
विशो येन गच्छथो देवयन्तीः कुत्रा चिद् यामम् अश्विना दधाना ॥

7.069.03

स्वश्वा यशसा यातम् अर्वाग् दस्रा निधिम् मधुमन्तम् पिबाथः ।
वि वां रथो वध्वा3 यादमानो ऽन्तान् दिवो बाधते वर्तनिभ्याम् ॥

7.069.04

युवोः श्रियम् परि योषावृणीत सूरो दुहिता परितक्म्यायाम् ।
यद् देवयन्तम् अवथः शचीभिः परि घ्रंसम् ओमना वां वयो गात् ॥

7.069.05

यो ह स्य वां रथिरा वस्त उस्रा रथो युजानः परियाति वर्तिः ।
तेन नः शं योर् उषसो व्युष्टौ न्य् अश्विना वहतं यज्ञे अस्मिन् ॥

7.069.06

नरा गौरेव विद्युतं तृषाणास्माकम् अद्य सवनोप यातम् ।
पुरुत्रा हि वाम् मतिभिर् हवन्ते मा वाम् अन्ये नि यमन् देवयन्तः ॥

7.069.07

युवम् भुज्युम् अवविद्धं समुद्र उद् ऊहथुर् अर्णसो अस्रिधानैः ।
पतत्रिभिर् अश्रमैर् अव्यथिभिर् दंसनाभिर् अश्विना पारयन्ता ॥

7.069.08

नू मे हवम् आ शृणुतं युवाना यासिष्टं वर्तिर् अश्विनाव् इरावत् ।
धत्तं रत्नानि जरतं च सूरीन् यूयम् पात स्वस्तिभिः सदा नः ॥

मूल पाठ: Ṛgveda-Saṃhitā · Edition: Theodor Aufrecht Die Hymnen des Rigveda. Mandala I-VI Bonn Mareus Theodor Aufrecht Die Hymnen des Rigveda. Mandala VII-X Bonn Mareus · Data entry Barend A. Van Nooten Gary B. Holland · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc