ऋग्वेद · अध्याय 7.068
आ शुभ्रा यातम् अश्विना स्वश्वा गिरो दस्रा जुजुषाणा युवाकोः ।
हव्यानि च प्रतिभृता वीतं नः ॥
प्र वाम् अन्धांसि मद्यान्य् अस्थुर् अरं गन्तं हविषो वीतये मे ।
तिरो अर्यो हवनानि श्रुतं नः ॥
प्र वां रथो मनोजवा इयर्ति तिरो रजांस्य् अश्विना शतोतिः ।
अस्मभ्यं सूर्यावसू इयानः ॥
अयं ह यद् वां देवया उ अद्रिर् ऊर्ध्वो विवक्ति सोमसुद् युवभ्याम् ।
आ वल्गू विप्रो ववृतीत हव्यैः ॥
चित्रं ह यद् वाम् भोजनं न्व् अस्ति न्य् अत्रये महिष्वन्तं युयोतम् ।
यो वाम् ओमानं दधते प्रियः सन् ॥
उत त्यद् वां जुरते अश्विना भूच् च्यवानाय प्रतीत्यं हविर्दे ।
अधि यद् वर्प इतऊति धत्थः ॥
उत त्यम् भुज्युम् अश्विना सखायो मध्ये जहुर् दुरेवासः समुद्रे ।
निर् ईम् पर्षद् अरावा यो युवाकुः ॥
वृकाय चिज् जसमानाय शक्तम् उत श्रुतं शयवे हूयमाना ।
याव् अघ्न्याम् अपिन्वतम् अपो न स्तर्यं चिच् छक्त्य् अश्विना शचीभिः ॥
एष स्य कारुर् जरते सूक्तैर् अग्रे बुधान उषसां सुमन्मा ।
इषा तं वर्धद् अघ्न्या पयोभिर् यूयम् पात स्वस्तिभिः सदा नः ॥
मूल पाठ: Ṛgveda-Saṃhitā · Edition: Theodor Aufrecht Die Hymnen des Rigveda. Mandala I-VI Bonn Mareus Theodor Aufrecht Die Hymnen des Rigveda. Mandala VII-X Bonn Mareus · Data entry Barend A. Van Nooten Gary B. Holland · GRETIL (Göttingen) · CC BY-NC-SA 4.0