भाषा

ENहिગુ
ग्रंथ पाठ

ऋग्वेद · अध्याय 7.070

7.070.01

आ विश्ववाराश्विना गतं नः प्र तत् स्थानम् अवाचि वाम् पृथिव्याम् ।
अश्वो न वाजी शुनपृष्ठो अस्थाद् आ यत् सेदथुर् ध्रुवसे न योनिम् ॥

7.070.02

सिषक्ति सा वां सुमतिश् चनिष्ठातापि घर्मो मनुषो दुरोणे ।
यो वां समुद्रान् सरितः पिपर्त्य् एतग्वा चिन् न सुयुजा युजानः ॥

7.070.03

यानि स्थानान्य् अश्विना दधाथे दिवो यह्वीष्व् ओषधीषु विक्षु ।
नि पर्वतस्य मूर्धनि सदन्तेषं जनाय दाशुषे वहन्ता ॥

7.070.04

चनिष्टं देवा ओषधीष्व् अप्सु यद् योग्या अश्नवैथे ऋषीणाम् ।
पुरूणि रत्ना दधतौ न्य् अ1स्मे अनु पूर्वाणि चख्यथुर् युगानि ॥

7.070.05

शुश्रुवांसा चिद् अश्विना पुरूण्य् अभि ब्रह्माणि चक्षाथे ऋषीणाम् ।
प्रति प्र यातं वरम् आ जनायास्मे वाम् अस्तु सुमतिश् चनिष्ठा ॥

7.070.06

यो वां यज्ञो नासत्या हविष्मान् कृतब्रह्मा समर्यो3 भवाति ।
उप प्र यातं वरम् आ वसिष्ठम् इमा ब्रह्माण्य् ऋच्यन्ते युवभ्याम् ॥

7.070.07

इयम् मनीषा इयम् अश्विना गीर् इमां सुवृक्तिं वृषणा जुषेथाम् ।
इमा ब्रह्माणि युवयून्य् अग्मन् यूयम् पात स्वस्तिभिः सदा नः ॥

मूल पाठ: Ṛgveda-Saṃhitā · Edition: Theodor Aufrecht Die Hymnen des Rigveda. Mandala I-VI Bonn Mareus Theodor Aufrecht Die Hymnen des Rigveda. Mandala VII-X Bonn Mareus · Data entry Barend A. Van Nooten Gary B. Holland · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc