भाषा

ENहिગુ
ग्रंथ पाठ

ऋग्वेद · अध्याय 7.067

7.067.01

प्रति वां रथं नृपती जरध्यै हविष्मता मनसा यज्ञियेन ।
यो वां दूतो न धिष्ण्याव् अजीगर् अच्छा सूनुर् न पितरा विवक्मि ॥

7.067.02

अशोच्य् अग्निः समिधानो अस्मे उपो अदृश्रन् तमसश् चिद् अन्ताः ।
अचेति केतुर् उषसः पुरस्ताच् छ्रिये दिवो दुहितुर् जायमानः ॥

7.067.03

अभि वां नूनम् अश्विना सुहोता स्तोमैः सिषक्ति नासत्या विवक्वान् ।
पूर्वीभिर् यातम् पथ्याभिर् अर्वाक् स्वर्विदा वसुमता रथेन ॥

7.067.04

अवोर् वां नूनम् अश्विना युवाकुर् हुवे यद् वां सुते माध्वी वसूयुः ।
आ वां वहन्तु स्थविरासो अश्वाः पिबाथो अस्मे सुषुता मधूनि ॥

7.067.05

प्राचीम् उ देवाश्विना धियम् मे ऽमृध्रां सातये कृतं वसूयुम् ।
विश्वा अविष्टं वाज आ पुरंधीस् ता नः शक्तं शचीपती शचीभिः ॥

7.067.06

अविष्टं धीष्व् अश्विना न आसु प्रजावद् रेतो अह्रयं नो अस्तु ।
आ वां तोके तनये तूतुजानाः सुरत्नासो देववीतिं गमेम ॥

7.067.07

एष स्य वाम् पूर्वगत्वेव सख्ये निधिर् हितो माध्वी रातो अस्मे ।
अहेळता मनसा यातम् अर्वाग् अश्नन्ता हव्यम् मानुषीषु विक्षु ॥

7.067.08

एकस्मिन् योगे भुरणा समाने परि वां सप्त स्रवतो रथो गात् ।
न वायन्ति सुभ्वो देवयुक्ता ये वां धूर्षु तरणयो वहन्ति ॥

7.067.09

असश्चता मघवद्भ्यो हि भूतं ये राया मघदेयं जुनन्ति ।
प्र ये बन्धुं सूनृताभिस् तिरन्ते गव्या पृञ्चन्तो अश्व्या मघानि ॥

7.067.10

नू मे हवम् आ शृणुतं युवाना यासिष्टं वर्तिर् अश्विनाव् इरावत् ।
धत्तं रत्नानि जरतं च सूरीन् यूयम् पात स्वस्तिभिः सदा नः ॥

मूल पाठ: Ṛgveda-Saṃhitā · Edition: Theodor Aufrecht Die Hymnen des Rigveda. Mandala I-VI Bonn Mareus Theodor Aufrecht Die Hymnen des Rigveda. Mandala VII-X Bonn Mareus · Data entry Barend A. Van Nooten Gary B. Holland · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc