ऋग्वेद · अध्याय 7.066
प्र मित्रयोर् वरुणयोः स्तोमो न एतु शूष्यः ।
नमस्वान् तुविजातयोः ॥
या धारयन्त देवाः सुदक्षा दक्षपितरा ।
असुर्याय प्रमहसा ॥
ता नः स्तिपा तनूपा वरुण जरितॄणाम् ।
मित्र साधयतं धियः ॥
यद् अद्य सूर उदिते ऽनागा मित्रो अर्यमा ।
सुवाति सविता भगः ॥
सुप्रावीर् अस्तु स क्षयः प्र नु यामन् सुदानवः ।
ये नो अंहो ऽतिपिप्रति ॥
उत स्वराजो अदितिर् अदब्धस्य व्रतस्य ये ।
महो राजान ईशते ॥
प्रति वां सूर उदिते मित्रं गृणीषे वरुणम् ।
अर्यमणं रिशादसम् ॥
राया हिरण्यया मतिर् इयम् अवृकाय शवसे ।
इयं विप्रा मेधसातये ॥
ते स्याम देव वरुण ते मित्र सूरिभिः सह ।
इषं स्वश् च धीमहि ॥
बहवः सूरचक्षसो ऽग्निजिह्वा ऋतावृधः ।
त्रीणि ये येमुर् विदथानि धीतिभिर् विश्वानि परिभूतिभिः ॥
वि ये दधुः शरदम् मासम् आद् अहर् यज्ञम् अक्तुं चाद् ऋचम् ।
अनाप्यं वरुणो मित्रो अर्यमा क्षत्रं राजान आशत ॥
तद् वो अद्य मनामहे सूक्तैः सूर उदिते ।
यद् ओहते वरुणो मित्रो अर्यमा यूयम् ऋतस्य रथ्यः ॥
ऋतावान ऋतजाता ऋतावृधो घोरासो अनृतद्विषः ।
तेषां वः सुम्ने सुच्छर्दिष्टमे नरः स्याम ये च सूरयः ॥
उद् उ त्यद् दर्शतं वपुर् दिव एति प्रतिह्वरे ।
यद् ईम् आशुर् वहति देव एतशो विश्वस्मै चक्षसे अरम् ॥
शीर्ष्णः-शीर्ष्णो जगतस् तस्थुषस् पतिं समया विश्वम् आ रजः ।
सप्त स्वसारः सुविताय सूर्यं वहन्ति हरितो रथे ॥
तच् चक्षुर् देवहितं शुक्रम् उच्चरत् ।
पश्येम शरदः शतं जीवेम शरदः शतम् ॥
काव्येभिर् अदाभ्या यातं वरुण द्युमत् ।
मित्रश् च सोमपीतये ॥
दिवो धामभिर् वरुण मित्रश् चा यातम् अद्रुहा ।
पिबतं सोमम् आतुजी ॥
आ यातम् मित्रावरुणा जुषाणाव् आहुतिं नरा ।
पातं सोमम् ऋतावृधा ॥
मूल पाठ: Ṛgveda-Saṃhitā · Edition: Theodor Aufrecht Die Hymnen des Rigveda. Mandala I-VI Bonn Mareus Theodor Aufrecht Die Hymnen des Rigveda. Mandala VII-X Bonn Mareus · Data entry Barend A. Van Nooten Gary B. Holland · GRETIL (Göttingen) · CC BY-NC-SA 4.0