भाषा

ENहिગુ
ग्रंथ पाठ

ऋग्वेद · अध्याय 7.061

7.061.01

उद् वां चक्षुर् वरुण सुप्रतीकं देवयोर् एति सूर्यस् ततन्वान् ।
अभि यो विश्वा भुवनानि चष्टे स मन्युम् मर्त्येष्व् आ चिकेत ॥

7.061.02

प्र वां स मित्रावरुणाव् ऋतावा विप्रो मन्मानि दीर्घश्रुद् इयर्ति ।
यस्य ब्रह्माणि सुक्रतू अवाथ आ यत् क्रत्वा न शरदः पृणैथे ॥

7.061.03

प्रोरोर् मित्रावरुणा पृथिव्याः प्र दिव ऋष्वाद् बृहतः सुदानू ।
स्पशो दधाथे ओषधीषु विक्ष्व् ऋधग् यतो अनिमिषं रक्षमाणा ॥

7.061.04

शंसा मित्रस्य वरुणस्य धाम शुष्मो रोदसी बद्बधे महित्वा ।
अयन् मासा अयज्वनाम् अवीराः प्र यज्ञमन्मा वृजनं तिराते ॥

7.061.05

अमूरा विश्वा वृषणाव् इमा वां न यासु चित्रं ददृशे न यक्षम् ।
द्रुहः सचन्ते अनृता जनानां न वां निण्यान्य् अचिते अभूवन् ॥

7.061.06

सम् उ वां यज्ञम् महयं नमोभिर् हुवे वाम् मित्रावरुणा सबाधः ।
प्र वाम् मन्मान्य् ऋचसे नवानि कृतानि ब्रह्म जुजुषन्न् इमानि ॥

7.061.07

इयं देव पुरोहितिर् युवभ्यां यज्ञेषु मित्रावरुणाव् अकारि ।
विश्वानि दुर्गा पिपृतं तिरो नो यूयम् पात स्वस्तिभिः सदा नः ॥

मूल पाठ: Ṛgveda-Saṃhitā · Edition: Theodor Aufrecht Die Hymnen des Rigveda. Mandala I-VI Bonn Mareus Theodor Aufrecht Die Hymnen des Rigveda. Mandala VII-X Bonn Mareus · Data entry Barend A. Van Nooten Gary B. Holland · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc