भाषा

ENहिગુ
ग्रंथ पाठ

ऋग्वेद · अध्याय 7.062

7.062.01

उत् सूर्यो बृहद् अर्चींष्य् अश्रेत् पुरु विश्वा जनिम मानुषाणाम् ।
समो दिवा ददृशे रोचमानः क्रत्वा कृतः सुकृतः कर्तृभिर् भूत् ॥

7.062.02

स सूर्य प्रति पुरो न उद् गा एभिः स्तोमेभिर् एतशेभिर् एवैः ।
प्र नो मित्राय वरुणाय वोचो ऽनागसो अर्यम्णे अग्नये च ॥

7.062.03

वि नः सहस्रं शुरुधो रदन्त्व् ऋतावानो वरुणो मित्रो अग्निः ।
यच्छन्तु चन्द्रा उपमं नो अर्कम् आ नः कामम् पूपुरन्तु स्तवानाः ॥

7.062.04

द्यावाभूमी अदिते त्रासीथां नो ये वां जज्ञुः सुजनिमान ऋष्वे ।
मा हेळे भूम वरुणस्य वायोर् मा मित्रस्य प्रियतमस्य नृणाम् ॥

7.062.05

प्र बाहवा सिसृतं जीवसे न आ नो गव्यूतिम् उक्षतं घृतेन ।
आ नो जने श्रवयतं युवाना श्रुतम् मे मित्रावरुणा हवेमा ॥

7.062.06

नू मित्रो वरुणो अर्यमा नस् त्मने तोकाय वरिवो दधन्तु ।
सुगा नो विश्वा सुपथानि सन्तु यूयम् पात स्वस्तिभिः सदा नः ॥

मूल पाठ: Ṛgveda-Saṃhitā · Edition: Theodor Aufrecht Die Hymnen des Rigveda. Mandala I-VI Bonn Mareus Theodor Aufrecht Die Hymnen des Rigveda. Mandala VII-X Bonn Mareus · Data entry Barend A. Van Nooten Gary B. Holland · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc