भाषा

ENहिગુ
ग्रंथ पाठ

ऋग्वेद · अध्याय 7.060

7.060.01

यद् अद्य सूर्य ब्रवो ऽनागा उद्यन् मित्राय वरुणाय सत्यम् ।
वयं देवत्रादिते स्याम तव प्रियासो अर्यमन् गृणन्तः ॥

7.060.02

एष स्य मित्रावरुणा नृचक्षा उभे उद् एति सूर्यो अभि ज्मन् ।
विश्वस्य स्थातुर् जगतश् च गोपा ऋजु मर्तेषु वृजिना च पश्यन् ॥

7.060.03

अयुक्त सप्त हरितः सधस्थाद् या ईं वहन्ति सूर्यं घृताचीः ।
धामानि मित्रावरुणा युवाकुः सं यो यूथेव जनिमानि चष्टे ॥

7.060.04

उद् वाम् पृक्षासो मधुमन्तो अस्थुर् आ सूर्यो अरुहच् छुक्रम् अर्णः ।
यस्मा आदित्या अध्वनो रदन्ति मित्रो अर्यमा वरुणः सजोषाः ॥

7.060.05

इमे चेतारो अनृतस्य भूरेर् मित्रो अर्यमा वरुणो हि सन्ति ।
इम ऋतस्य वावृधुर् दुरोणे शग्मासः पुत्रा अदितेर् अदब्धाः ॥

7.060.06

इमे मित्रो वरुणो दूळभासो ऽचेतसं चिच् चितयन्ति दक्षैः ।
अपि क्रतुं सुचेतसं वतन्तस् तिरश् चिद् अंहः सुपथा नयन्ति ॥

7.060.07

इमे दिवो अनिमिषा पृथिव्याश् चिकित्वांसो अचेतसं नयन्ति ।
प्रव्राजे चिन् नद्यो गाधम् अस्ति पारं नो अस्य विष्पितस्य पर्षन् ॥

7.060.08

यद् गोपावद् अदितिः शर्म भद्रम् मित्रो यच्छन्ति वरुणः सुदासे ।
तस्मिन्न् आ तोकं तनयं दधाना मा कर्म देवहेळनं तुरासः ॥

7.060.09

अव वेदिं होत्राभिर् यजेत रिपः काश् चिद् वरुणध्रुतः सः ।
परि द्वेषोभिर् अर्यमा वृणक्तूरुं सुदासे वृषणा उ लोकम् ॥

7.060.10

सस्वश् चिद् धि समृतिस् त्वेष्य् एषाम् अपीच्येन सहसा सहन्ते ।
युष्मद् भिया वृषणो रेजमाना दक्षस्य चिन् महिना मृळता नः ॥

7.060.11

यो ब्रह्मणे सुमतिम् आयजाते वाजस्य सातौ परमस्य रायः ।
सीक्षन्त मन्युम् मघवानो अर्य उरु क्षयाय चक्रिरे सुधातु ॥

7.060.12

इयं देव पुरोहितिर् युवभ्यां यज्ञेषु मित्रावरुणाव् अकारि ।
विश्वानि दुर्गा पिपृतं तिरो नो यूयम् पात स्वस्तिभिः सदा नः ॥

मूल पाठ: Ṛgveda-Saṃhitā · Edition: Theodor Aufrecht Die Hymnen des Rigveda. Mandala I-VI Bonn Mareus Theodor Aufrecht Die Hymnen des Rigveda. Mandala VII-X Bonn Mareus · Data entry Barend A. Van Nooten Gary B. Holland · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc