ऋग्वेद · अध्याय 7.056
क ईं व्यक्ता नरः सनीळा रुद्रस्य मर्या अध स्वश्वाः ॥
नकिर् ह्य् एषां जनूंषि वेद ते अङ्ग विद्रे मिथो जनित्रम् ॥
अभि स्वपूभिर् मिथो वपन्त वातस्वनसः श्येना अस्पृध्रन् ॥
एतानि धीरो निण्या चिकेत पृश्निर् यद् ऊधो मही जभार ॥
सा विट् सुवीरा मरुद्भिर् अस्तु सनात् सहन्ती पुष्यन्ती नृम्णम् ॥
यामं येष्ठाः शुभा शोभिष्ठाः श्रिया सम्मिश्ला ओजोभिर् उग्राः ॥
उग्रं व ओजः स्थिरा शवांस्य् अधा मरुद्भिर् गणस् तुविष्मान् ॥
शुभ्रो वः शुष्मः क्रुध्मी मनांसि धुनिर् मुनिर् इव शर्धस्य धृष्णोः ॥
सनेम्य् अस्मद् युयोत दिद्युम् मा वो दुर्मतिर् इह प्रणङ् नः ॥
प्रिया वो नाम हुवे तुराणाम् आ यत् तृपन् मरुतो वावशानाः ॥
स्वायुधास इष्मिणः सुनिष्का उत स्वयं तन्व1ः शुम्भमानाः ॥
शुची वो हव्या मरुतः शुचीनां शुचिं हिनोम्य् अध्वरं शुचिभ्यः ।
ऋतेन सत्यम् ऋतसाप आयञ् छुचिजन्मानः शुचयः पावकाः ॥
अंसेष्व् आ मरुतः खादयो वो वक्षःसु रुक्मा उपशिश्रियाणाः ।
वि विद्युतो न वृष्टिभी रुचाना अनु स्वधाम् आयुधैर् यच्छमानाः ॥
प्र बुध्न्या व ईरते महांसि प्र नामानि प्रयज्यवस् तिरध्वम् ।
सहस्रियं दम्यम् भागम् एतं गृहमेधीयम् मरुतो जुषध्वम् ॥
यदि स्तुतस्य मरुतो अधीथेत्था विप्रस्य वाजिनो हवीमन् ।
मक्षू रायः सुवीर्यस्य दात नू चिद् यम् अन्य आदभद् अरावा ॥
अत्यासो न ये मरुतः स्वञ्चो यक्षदृशो न शुभयन्त मर्याः ।
ते हर्म्येष्ठाः शिशवो न शुभ्रा वत्सासो न प्रक्रीळिनः पयोधाः ॥
दशस्यन्तो नो मरुतो मृळन्तु वरिवस्यन्तो रोदसी सुमेके ।
आरे गोहा नृहा वधो वो अस्तु सुम्नेभिर् अस्मे वसवो नमध्वम् ॥
आ वो होता जोहवीति सत्तः सत्राचीं रातिम् मरुतो गृणानः ।
य ईवतो वृषणो अस्ति गोपाः सो अद्वयावी हवते व उक्थैः ॥
इमे तुरम् मरुतो रामयन्तीमे सहः सहस आ नमन्ति ।
इमे शंसं वनुष्यतो नि पान्ति गुरु द्वेषो अररुषे दधन्ति ॥
इमे रध्रं चिन् मरुतो जुनन्ति भृमिं चिद् यथा वसवो जुषन्त ।
अप बाधध्वं वृषणस् तमांसि धत्त विश्वं तनयं तोकम् अस्मे ॥
मा वो दात्रान् मरुतो निर् अराम मा पश्चाद् दघ्म रथ्यो विभागे ।
आ नः स्पार्हे भजतना वसव्ये3 यद् ईं सुजातं वृषणो वो अस्ति ॥
सं यद् धनन्त मन्युभिर् जनासः शूरा यह्वीष्व् ओषधीषु विक्षु ।
अध स्मा नो मरुतो रुद्रियासस् त्रातारो भूत पृतनास्व् अर्यः ॥
भूरि चक्र मरुतः पित्र्याण्य् उक्थानि या वः शस्यन्ते पुरा चित् ।
मरुद्भिर् उग्रः पृतनासु साळ्हा मरुद्भिर् इत् सनिता वाजम् अर्वा ॥
अस्मे वीरो मरुतः शुष्म्य् अस्तु जनानां यो असुरो विधर्ता ।
अपो येन सुक्षितये तरेमाध स्वम् ओको अभि वः स्याम ॥
तन् न इन्द्रो वरुणो मित्रो अग्निर् आप ओषधीर् वनिनो जुषन्त ।
शर्मन् स्याम मरुताम् उपस्थे यूयम् पात स्वस्तिभिः सदा नः ॥
मूल पाठ: Ṛgveda-Saṃhitā · Edition: Theodor Aufrecht Die Hymnen des Rigveda. Mandala I-VI Bonn Mareus Theodor Aufrecht Die Hymnen des Rigveda. Mandala VII-X Bonn Mareus · Data entry Barend A. Van Nooten Gary B. Holland · GRETIL (Göttingen) · CC BY-NC-SA 4.0