ऋग्वेद · अध्याय 7.057
मध्वो वो नाम मारुतं यजत्राः प्र यज्ञेषु शवसा मदन्ति ।
ये रेजयन्ति रोदसी चिद् उर्वी पिन्वन्त्य् उत्सं यद् अयासुर् उग्राः ॥
निचेतारो हि मरुतो गृणन्तम् प्रणेतारो यजमानस्य मन्म ।
अस्माकम् अद्य विदथेषु बर्हिर् आ वीतये सदत पिप्रियाणाः ॥
नैतावद् अन्ये मरुतो यथेमे भ्राजन्ते रुक्मैर् आयुधैस् तनूभिः ।
आ रोदसी विश्वपिशः पिशानाः समानम् अञ्ज्य् अञ्जते शुभे कम् ॥
ऋधक् सा वो मरुतो दिद्युद् अस्तु यद् व आगः पुरुषता कराम ।
मा वस् तस्याम् अपि भूमा यजत्रा अस्मे वो अस्तु सुमतिश् चनिष्ठा ॥
कृते चिद् अत्र मरुतो रणन्तानवद्यासः शुचयः पावकाः ।
प्र णो ऽवत सुमतिभिर् यजत्राः प्र वाजेभिस् तिरत पुष्यसे नः ॥
उत स्तुतासो मरुतो व्यन्तु विश्वेभिर् नामभिर् नरो हवींषि ।
ददात नो अमृतस्य प्रजायै जिगृत रायः सूनृता मघानि ॥
आ स्तुतासो मरुतो विश्व ऊती अच्छा सूरीन् सर्वताता जिगात ।
ये नस् त्मना शतिनो वर्धयन्ति यूयम् पात स्वस्तिभिः सदा नः ॥
मूल पाठ: Ṛgveda-Saṃhitā · Edition: Theodor Aufrecht Die Hymnen des Rigveda. Mandala I-VI Bonn Mareus Theodor Aufrecht Die Hymnen des Rigveda. Mandala VII-X Bonn Mareus · Data entry Barend A. Van Nooten Gary B. Holland · GRETIL (Göttingen) · CC BY-NC-SA 4.0