भाषा

ENहिગુ
ग्रंथ पाठ

ऋग्वेद · अध्याय 7.055

7.055.01

अमीवहा वास्तोष् पते विश्वा रूपाण्य् आविशन् ।
सखा सुशेव एधि नः ॥

7.055.02

यद् अर्जुन सारमेय दतः पिशङ्ग यच्छसे ।
वीव भ्राजन्त ऋष्टय उप स्रक्वेषु बप्सतो नि षु स्वप ॥

7.055.03

स्तेनं राय सारमेय तस्करं वा पुनःसर ।
स्तोतॄन् इन्द्रस्य रायसि किम् अस्मान् दुच्छुनायसे नि षु स्वप ॥

7.055.04

त्वं सूकरस्य दर्दृहि तव दर्दर्तु सूकरः ।
स्तोतॄन् इन्द्रस्य रायसि किम् अस्मान् दुच्छुनायसे नि षु स्वप ॥

7.055.05

सस्तु माता सस्तु पिता सस्तु श्वा सस्तु विश्पतिः ।
ससन्तु सर्वे ज्ञातयः सस्त्व् अयम् अभितो जनः ॥

7.055.06

य आस्ते यश् च चरति यश् च पश्यति नो जनः ।
तेषां सं हन्मो अक्षाणि यथेदं हर्म्यं तथा ॥

7.055.07

सहस्रशृङ्गो वृषभो यः समुद्राद् उदाचरत् ।
तेना सहस्येना वयं नि जनान् स्वापयामसि ॥

7.055.08

प्रोष्ठेशया वह्येशया नारीर् यास् तल्पशीवरीः ।
स्त्रियो याः पुण्यगन्धास् ताः सर्वाः स्वापयामसि ॥

मूल पाठ: Ṛgveda-Saṃhitā · Edition: Theodor Aufrecht Die Hymnen des Rigveda. Mandala I-VI Bonn Mareus Theodor Aufrecht Die Hymnen des Rigveda. Mandala VII-X Bonn Mareus · Data entry Barend A. Van Nooten Gary B. Holland · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc