भाषा

ENहिગુ
ग्रंथ पाठ

ऋग्वेद · अध्याय 7.050

7.050.01

आ माम् मित्रावरुणेह रक्षतं कुलाययद् विश्वयन् मा न आ गन् ।
अजकावं दुर्दृशीकं तिरो दधे मा माम् पद्येन रपसा विदत् त्सरुः ॥

7.050.02

यद् विजामन् परुषि वन्दनम् भुवद् अष्ठीवन्तौ परि कुल्फौ च देहत् ।
अग्निष् टच् छोचन्न् अप बाधताम् इतो मा माम् पद्येन रपसा विदत् त्सरुः ॥

7.050.03

यच् छल्मलौ भवति यन् नदीषु यद् ओषधीभ्यः परि जायते विषम् ।
विश्वे देवा निर् इतस् तत् सुवन्तु मा माम् पद्येन रपसा विदत् त्सरुः ॥

7.050.04

याः प्रवतो निवत उद्वत उदन्वतीर् अनुदकाश् च याः ।
ता अस्मभ्यम् पयसा पिन्वमानाः शिवा देवीर् अशिपदा भवन्तु सर्वा नद्यो अशिमिदा भवन्तु ॥

मूल पाठ: Ṛgveda-Saṃhitā · Edition: Theodor Aufrecht Die Hymnen des Rigveda. Mandala I-VI Bonn Mareus Theodor Aufrecht Die Hymnen des Rigveda. Mandala VII-X Bonn Mareus · Data entry Barend A. Van Nooten Gary B. Holland · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc