ग्रंथ पाठ
ऋग्वेद · अध्याय 7.051
7.051.01
आदित्यानाम् अवसा नूतनेन सक्षीमहि शर्मणा शंतमेन ।
अनागास्त्वे अदितित्वे तुरास इमं यज्ञं दधतु श्रोषमाणाः ॥
7.051.02
आदित्यासो अदितिर् मादयन्ताम् मित्रो अर्यमा वरुणो रजिष्ठाः ।
अस्माकं सन्तु भुवनस्य गोपाः पिबन्तु सोमम् अवसे नो अद्य ॥
7.051.03
आदित्या विश्वे मरुतश् च विश्वे देवाश् च विश्व ऋभवश् च विश्वे ।
इन्द्रो अग्निर् अश्विना तुष्टुवाना यूयम् पात स्वस्तिभिः सदा नः ॥
मूल पाठ: Ṛgveda-Saṃhitā · Edition: Theodor Aufrecht Die Hymnen des Rigveda. Mandala I-VI Bonn Mareus Theodor Aufrecht Die Hymnen des Rigveda. Mandala VII-X Bonn Mareus · Data entry Barend A. Van Nooten Gary B. Holland · GRETIL (Göttingen) · CC BY-NC-SA 4.0