ऋग्वेद · अध्याय 7.049
समुद्रज्येष्ठाः सलिलस्य मध्यात् पुनाना यन्त्य् अनिविशमानाः ।
इन्द्रो या वज्री वृषभो रराद ता आपो देवीर् इह माम् अवन्तु ॥
या आपो दिव्या उत वा स्रवन्ति खनित्रिमा उत वा याः स्वयंजाः ।
समुद्रार्था याः शुचयः पावकास् ता आपो देवीर् इह माम् अवन्तु ॥
यासां राजा वरुणो याति मध्ये सत्यानृते अवपश्यञ् जनानाम् ।
मधुश्चुतः शुचयो याः पावकास् ता आपो देवीर् इह माम् अवन्तु ॥
यासु राजा वरुणो यासु सोमो विश्वे देवा यासूर्जम् मदन्ति ।
वैश्वानरो यास्व् अग्निः प्रविष्टस् ता आपो देवीर् इह माम् अवन्तु ॥
मूल पाठ: Ṛgveda-Saṃhitā · Edition: Theodor Aufrecht Die Hymnen des Rigveda. Mandala I-VI Bonn Mareus Theodor Aufrecht Die Hymnen des Rigveda. Mandala VII-X Bonn Mareus · Data entry Barend A. Van Nooten Gary B. Holland · GRETIL (Göttingen) · CC BY-NC-SA 4.0