ऋग्वेद · अध्याय 7.043
प्र वो यज्ञेषु देवयन्तो अर्चन् द्यावा नमोभिः पृथिवी इषध्यै ।
येषाम् ब्रह्माण्य् असमानि विप्रा विष्वग् वियन्ति वनिनो न शाखाः ॥
प्र यज्ञ एतु हेत्वो न सप्तिर् उद् यच्छध्वं समनसो घृताचीः ।
स्तृणीत बर्हिर् अध्वराय साधूर्ध्वा शोचींषि देवयून्य् अस्थुः ॥
आ पुत्रासो न मातरं विभृत्राः सानौ देवासो बर्हिषः सदन्तु ।
आ विश्वाची विदथ्याम् अनक्त्व् अग्ने मा नो देवताता मृधस् कः ॥
ते सीषपन्त जोषम् आ यजत्रा ऋतस्य धाराः सुदुघा दुहानाः ।
ज्येष्ठं वो अद्य मह आ वसूनाम् आ गन्तन समनसो यति ष्ठ ॥
एवा नो अग्ने विक्ष्व् आ दशस्य त्वया वयं सहसावन्न् आस्क्राः ।
राया युजा सधमादो अरिष्टा यूयम् पात स्वस्तिभिः सदा नः ॥
मूल पाठ: Ṛgveda-Saṃhitā · Edition: Theodor Aufrecht Die Hymnen des Rigveda. Mandala I-VI Bonn Mareus Theodor Aufrecht Die Hymnen des Rigveda. Mandala VII-X Bonn Mareus · Data entry Barend A. Van Nooten Gary B. Holland · GRETIL (Göttingen) · CC BY-NC-SA 4.0