भाषा

ENहिગુ
ग्रंथ पाठ

ऋग्वेद · अध्याय 7.044

7.044.01

दधिक्रां वः प्रथमम् अश्विनोषसम् अग्निं समिद्धम् भगम् ऊतये हुवे ।
इन्द्रं विष्णुम् पूषणम् ब्रह्मणस् पतिम् आदित्यान् द्यावापृथिवी अपः स्वः ॥

7.044.02

दधिक्राम् उ नमसा बोधयन्त उदीराणा यज्ञम् उपप्रयन्तः ।
इळां देवीम् बर्हिषि सादयन्तो ऽश्विना विप्रा सुहवा हुवेम ॥

7.044.03

दधिक्रावाणम् बुबुधानो अग्निम् उप ब्रुव उषसं सूर्यं गाम् ।
ब्रध्नम् मँश्चतोर् वरुणस्य बभ्रुं ते विश्वास्मद् दुरिता यावयन्तु ॥

7.044.04

दधिक्रावा प्रथमो वाज्य् अर्वाग्रे रथानाम् भवति प्रजानन् ।
संविदान उषसा सूर्येणादित्येभिर् वसुभिर् अङ्गिरोभिः ॥

7.044.05

आ नो दधिक्राः पथ्याम् अनक्त्व् ऋतस्य पन्थाम् अन्वेतवा उ ।
शृणोतु नो दैव्यं शर्धो अग्निः शृण्वन्तु विश्वे महिषा अमूराः ॥

मूल पाठ: Ṛgveda-Saṃhitā · Edition: Theodor Aufrecht Die Hymnen des Rigveda. Mandala I-VI Bonn Mareus Theodor Aufrecht Die Hymnen des Rigveda. Mandala VII-X Bonn Mareus · Data entry Barend A. Van Nooten Gary B. Holland · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc