भाषा

ENहिગુ
ग्रंथ पाठ

ऋग्वेद · अध्याय 7.042

7.042.01

प्र ब्रह्माणो अङ्गिरसो नक्षन्त प्र क्रन्दनुर् नभन्यस्य वेतु ।
प्र धेनव उदप्रुतो नवन्त युज्याताम् अद्री अध्वरस्य पेशः ॥

7.042.02

सुगस् ते अग्ने सनवित्तो अध्वा युक्ष्वा सुते हरितो रोहितश् च ।
ये वा सद्मन्न् अरुषा वीरवाहो हुवे देवानां जनिमानि सत्तः ॥

7.042.03

सम् उ वो यज्ञम् महयन् नमोभिः प्र होता मन्द्रो रिरिच उपाके ।
यजस्व सु पुर्वणीक देवान् आ यज्ञियाम् अरमतिं ववृत्याः ॥

7.042.04

यदा वीरस्य रेवतो दुरोणे स्योनशीर् अतिथिर् आचिकेतत् ।
सुप्रीतो अग्निः सुधितो दम आ स विशे दाति वार्यम् इयत्यै ॥

7.042.05

इमं नो अग्ने अध्वरं जुषस्व मरुत्स्व् इन्द्रे यशसं कृधी नः ।
आ नक्ता बर्हिः सदताम् उषासोशन्ता मित्रावरुणा यजेह ॥

7.042.06

एवाग्निं सहस्य1ं वसिष्ठो रायस्कामो विश्वप्स्न्यस्य स्तौत् ।
इषं रयिम् पप्रथद् वाजम् अस्मे यूयम् पात स्वस्तिभिः सदा नः ॥

मूल पाठ: Ṛgveda-Saṃhitā · Edition: Theodor Aufrecht Die Hymnen des Rigveda. Mandala I-VI Bonn Mareus Theodor Aufrecht Die Hymnen des Rigveda. Mandala VII-X Bonn Mareus · Data entry Barend A. Van Nooten Gary B. Holland · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc