भाषा

ENहिગુ
ग्रंथ पाठ

ऋग्वेद · अध्याय 7.036

7.036.01

प्र ब्रह्मैतु सदनाद् ऋतस्य वि रश्मिभिः ससृजे सूर्यो गाः ।
वि सानुना पृथिवी सस्र उर्वी पृथु प्रतीकम् अध्य् एधे अग्निः ॥

7.036.02

इमां वाम् मित्रावरुणा सुवृक्तिम् इषं न कृण्वे असुरा नवीयः ।
इनो वाम् अन्यः पदवीर् अदब्धो जनं च मित्रो यतति ब्रुवाणः ॥

7.036.03

आ वातस्य ध्रजतो रन्त इत्या अपीपयन्त धेनवो न सूदाः ।
महो दिवः सदने जायमानो ऽचिक्रदद् वृषभः सस्मिन्न् ऊधन् ॥

7.036.04

गिरा य एता युनजद् धरी त इन्द्र प्रिया सुरथा शूर धायू ।
प्र यो मन्युं रिरिक्षतो मिनात्य् आ सुक्रतुम् अर्यमणं ववृत्याम् ॥

7.036.05

यजन्ते अस्य सख्यं वयश् च नमस्विनः स्व ऋतस्य धामन् ।
वि पृक्षो बाबधे नृभिः स्तवान इदं नमो रुद्राय प्रेष्ठम् ॥

7.036.06

आ यत् साकं यशसो वावशानाः सरस्वती सप्तथी सिन्धुमाता ।
याः सुष्वयन्त सुदुघाः सुधारा अभि स्वेन पयसा पीप्यानाः ॥

7.036.07

उत त्ये नो मरुतो मन्दसाना धियं तोकं च वाजिनो ऽवन्तु ।
मा नः परि ख्यद् अक्षरा चरन्त्य् अवीवृधन् युज्यं ते रयिं नः ॥

7.036.08

प्र वो महीम् अरमतिं कृणुध्वम् प्र पूषणं विदथ्य1ं न वीरम् ।
भगं धियो ऽवितारं नो अस्याः सातौ वाजं रातिषाचम् पुरंधिम् ॥

7.036.09

अच्छायं वो मरुतः श्लोक एत्व् अच्छा विष्णुं निषिक्तपाम् अवोभिः ।
उत प्रजायै गृणते वयो धुर् यूयम् पात स्वस्तिभिः सदा नः ॥

मूल पाठ: Ṛgveda-Saṃhitā · Edition: Theodor Aufrecht Die Hymnen des Rigveda. Mandala I-VI Bonn Mareus Theodor Aufrecht Die Hymnen des Rigveda. Mandala VII-X Bonn Mareus · Data entry Barend A. Van Nooten Gary B. Holland · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc