ऋग्वेद · अध्याय 7.037
आ वो वाहिष्ठो वहतु स्तवध्यै रथो वाजा ऋभुक्षणो अमृक्तः ।
अभि त्रिपृष्ठैः सवनेषु सोमैर् मदे सुशिप्रा महभिः पृणध्वम् ॥
यूयं ह रत्नम् मघवत्सु धत्थ स्वर्दृश ऋभुक्षणो अमृक्तम् ।
सं यज्ञेषु स्वधावन्तः पिबध्वं वि नो राधांसि मतिभिर् दयध्वम् ॥
उवोचिथ हि मघवन् देष्णम् महो अर्भस्य वसुनो विभागे ।
उभा ते पूर्णा वसुना गभस्ती न सूनृता नि यमते वसव्या ॥
त्वम् इन्द्र स्वयशा ऋभुक्षा वाजो न साधुर् अस्तम् एष्य् ऋक्वा ।
वयं नु ते दाश्वांसः स्याम ब्रह्म कृण्वन्तो हरिवो वसिष्ठाः ॥
सनितासि प्रवतो दाशुषे चिद् याभिर् विवेषो हर्यश्व धीभिः ।
ववन्मा नु ते युज्याभिर् ऊती कदा न इन्द्र राय आ दशस्येः ॥
वासयसीव वेधसस् त्वं नः कदा न इन्द्र वचसो बुबोधः ।
अस्तं तात्या धिया रयिं सुवीरम् पृक्षो नो अर्वा न्य् उहीत वाजी ॥
अभि यं देवी निरृतिश् चिद् ईशे नक्षन्त इन्द्रं शरदः सुपृक्षः ।
उप त्रिबन्धुर् जरदष्टिम् एत्य् अस्ववेशं यं कृणवन्त मर्ताः ॥
आ नो राधांसि सवितः स्तवध्या आ रायो यन्तु पर्वतस्य रातौ ।
सदा नो दिव्यः पायुः सिषक्तु यूयम् पात स्वस्तिभिः सदा नः ॥
मूल पाठ: Ṛgveda-Saṃhitā · Edition: Theodor Aufrecht Die Hymnen des Rigveda. Mandala I-VI Bonn Mareus Theodor Aufrecht Die Hymnen des Rigveda. Mandala VII-X Bonn Mareus · Data entry Barend A. Van Nooten Gary B. Holland · GRETIL (Göttingen) · CC BY-NC-SA 4.0