ऋग्वेद · अध्याय 7.035
शं न इन्द्राग्नी भवताम् अवोभिः शं न इन्द्रावरुणा रातहव्या ।
शम् इन्द्रासोमा सुविताय शं योः शं न इन्द्रापूषणा वाजसातौ ॥
शं नो भगः शम् उ नः शंसो अस्तु शं नः पुरंधिः शम् उ सन्तु रायः ।
शं नः सत्यस्य सुयमस्य शंसः शं नो अर्यमा पुरुजातो अस्तु ॥
शं नो धाता शम् उ धर्ता नो अस्तु शं न उरूची भवतु स्वधाभिः ।
शं रोदसी बृहती शं नो अद्रिः शं नो देवानां सुहवानि सन्तु ॥
शं नो अग्निर् ज्योतिरनीको अस्तु शं नो मित्रावरुणाव् अश्विना शम् ।
शं नः सुकृतां सुकृतानि सन्तु शं न इषिरो अभि वातु वातः ॥
शं नो द्यावापृथिवी पूर्वहूतौ शम् अन्तरिक्षं दृशये नो अस्तु ।
शं न ओषधीर् वनिनो भवन्तु शं नो रजसस् पतिर् अस्तु जिष्णुः ॥
शं न इन्द्रो वसुभिर् देवो अस्तु शम् आदित्येभिर् वरुणः सुशंसः ।
शं नो रुद्रो रुद्रेभिर् जलाषः शं नस् त्वष्टा ग्नाभिर् इह शृणोतु ॥
शं नः सोमो भवतु ब्रह्म शं नः शं नो ग्रावाणः शम् उ सन्तु यज्ञाः ।
शं नः स्वरूणाम् मितयो भवन्तु शं नः प्रस्व1ः शम् व् अस्तु वेदिः ॥
शं नः सूर्य उरुचक्षा उद् एतु शं नश् चतस्रः प्रदिशो भवन्तु ।
शं नः पर्वता ध्रुवयो भवन्तु शं नः सिन्धवः शम् उ सन्त्व् आपः ॥
शं नो अदितिर् भवतु व्रतेभिः शं नो भवन्तु मरुतः स्वर्काः ।
शं नो विष्णुः शम् उ पूषा नो अस्तु शं नो भवित्रं शम् व् अस्तु वायुः ॥
शं नो देवः सविता त्रायमाणः शं नो भवन्तूषसो विभातीः ।
शं नः पर्जन्यो भवतु प्रजाभ्यः शं नः क्षेत्रस्य पतिर् अस्तु शम्भुः ॥
शं नो देवा विश्वदेवा भवन्तु शं सरस्वती सह धीभिर् अस्तु ।
शम् अभिषाचः शम् उ रातिषाचः शं नो दिव्याः पार्थिवाः शं नो अप्याः ॥
शं नः सत्यस्य पतयो भवन्तु शं नो अर्वन्तः शम् उ सन्तु गावः ।
शं न ऋभवः सुकृतः सुहस्ताः शं नो भवन्तु पितरो हवेषु ॥
शं नो अज एकपाद् देवो अस्तु शं नो ऽहिर् बुध्न्य1ः शं समुद्रः ।
शं नो अपां नपात् पेरुर् अस्तु शं नः पृश्निर् भवतु देवगोपा ॥
आदित्या रुद्रा वसवो जुषन्तेदम् ब्रह्म क्रियमाणं नवीयः ।
शृण्वन्तु नो दिव्याः पार्थिवासो गोजाता उत ये यज्ञियासः ॥
ये देवानां यज्ञिया यज्ञियानाम् मनोर् यजत्रा अमृता ऋतज्ञाः ।
ते नो रासन्ताम् उरुगायम् अद्य यूयम् पात स्वस्तिभिः सदा नः ॥
मूल पाठ: Ṛgveda-Saṃhitā · Edition: Theodor Aufrecht Die Hymnen des Rigveda. Mandala I-VI Bonn Mareus Theodor Aufrecht Die Hymnen des Rigveda. Mandala VII-X Bonn Mareus · Data entry Barend A. Van Nooten Gary B. Holland · GRETIL (Göttingen) · CC BY-NC-SA 4.0