भाषा

ENहिગુ
ग्रंथ पाठ

ऋग्वेद · अध्याय 7.033

7.033.01

श्वित्यञ्चो मा दक्षिणतस्कपर्दा धियंजिन्वासो अभि हि प्रमन्दुः ।
उत्तिष्ठन् वोचे परि बर्हिषो नॄन् न मे दूराद् अवितवे वसिष्ठाः ॥

7.033.02

दूराद् इन्द्रम् अनयन्न् आ सुतेन तिरो वैशन्तम् अति पान्तम् उग्रम् ।
पाशद्युम्नस्य वायतस्य सोमात् सुताद् इन्द्रो ऽवृणीता वसिष्ठान् ॥

7.033.03

एवेन् नु कं सिन्धुम् एभिस् ततारेवेन् नु कम् भेदम् एभिर् जघान ।
एवेन् नु कं दाशराज्ञे सुदासम् प्रावद् इन्द्रो ब्रह्मणा वो वसिष्ठाः ॥

7.033.04

जुष्टी नरो ब्रह्मणा वः पितॄणाम् अक्षम् अव्ययं न किला रिषाथ ।
यच् छक्वरीषु बृहता रवेणेन्द्रे शुष्मम् अदधाता वसिष्ठाः ॥

7.033.05

उद् द्याम् इवेत् तृष्णजो नाथितासो ऽदीधयुर् दाशराज्ञे वृतासः ।
वसिष्ठस्य स्तुवत इन्द्रो अश्रोद् उरुं तृत्सुभ्यो अकृणोद् उ लोकम् ॥

7.033.06

दण्डा इवेद् गोअजनास आसन् परिच्छिन्ना भरता अर्भकासः ।
अभवच् च पुरएता वसिष्ठ आद् इत् तृत्सूनां विशो अप्रथन्त ॥

7.033.07

त्रयः कृण्वन्ति भुवनेषु रेतस् तिस्रः प्रजा आर्या ज्योतिरग्राः ।
त्रयो घर्मास उषसं सचन्ते सर्वाँ इत् ताँ अनु विदुर् वसिष्ठाः ॥

7.033.08

सूर्यस्येव वक्षथो ज्योतिर् एषां समुद्रस्येव महिमा गभीरः ।
वातस्येव प्रजवो नान्येन स्तोमो वसिष्ठा अन्वेतवे वः ॥

7.033.09

त इन् निण्यं हृदयस्य प्रकेतैः सहस्रवल्शम् अभि सं चरन्ति ।
यमेन ततम् परिधिं वयन्तो ऽप्सरस उप सेदुर् वसिष्ठाः ॥

7.033.10

विद्युतो ज्योतिः परि संजिहानम् मित्रावरुणा यद् अपश्यतां त्वा ।
तत् ते जन्मोतैकं वसिष्ठागस्त्यो यत् त्वा विश आजभार ॥

7.033.11

उतासि मैत्रावरुणो वसिष्ठोर्वश्या ब्रह्मन् मनसो ऽधि जातः ।
द्रप्सं स्कन्नम् ब्रह्मणा दैव्येन विश्वे देवाः पुष्करे त्वाददन्त ॥

7.033.12

स प्रकेत उभयस्य प्रविद्वान् सहस्रदान उत वा सदानः ।
यमेन ततम् परिधिं वयिष्यन्न् अप्सरसः परि जज्ञे वसिष्ठः ॥

7.033.13

सत्रे ह जाताव् इषिता नमोभिः कुम्भे रेतः सिषिचतुः समानम् ।
ततो ह मान उद् इयाय मध्यात् ततो जातम् ऋषिम् आहुर् वसिष्ठम् ॥

7.033.14

उक्थभृतं सामभृतम् बिभर्ति ग्रावाणम् बिभ्रत् प्र वदात्य् अग्रे ।
उपैनम् आध्वं सुमनस्यमाना आ वो गच्छाति प्रतृदो वसिष्ठः ॥

मूल पाठ: Ṛgveda-Saṃhitā · Edition: Theodor Aufrecht Die Hymnen des Rigveda. Mandala I-VI Bonn Mareus Theodor Aufrecht Die Hymnen des Rigveda. Mandala VII-X Bonn Mareus · Data entry Barend A. Van Nooten Gary B. Holland · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc