ऋग्वेद · अध्याय 7.034
प्र शुक्रैतु देवी मनीषा अस्मत् सुतष्टो रथो न वाजी ॥
विदुः पृथिव्या दिवो जनित्रं शृण्वन्त्य् आपो अध क्षरन्तीः ॥
आपश् चिद् अस्मै पिन्वन्त पृथ्वीर् वृत्रेषु शूरा मंसन्त उग्राः ॥
आ धूर्ष्व् अस्मै दधाताश्वान् इन्द्रो न वज्री हिरण्यबाहुः ॥
अभि प्र स्थाताहेव यज्ञं यातेव पत्मन् त्मना हिनोत ॥
त्मना समत्सु हिनोत यज्ञं दधात केतुं जनाय वीरम् ॥
उद् अस्य शुष्माद् भानुर् नार्त बिभर्ति भारम् पृथिवी न भूम ॥
ह्वयामि देवाँ अयातुर् अग्ने साधन्न् ऋतेन धियं दधामि ॥
अभि वो देवीं धियं दधिध्वम् प्र वो देवत्रा वाचं कृणुध्वम् ॥
आ चष्ट आसाम् पाथो नदीनां वरुण उग्रः सहस्रचक्षाः ॥
राजा राष्ट्रानाम् पेशो नदीनाम् अनुत्तम् अस्मै क्षत्रं विश्वायु ॥
अविष्टो अस्मान् विश्वासु विक्ष्व् अद्युं कृणोत शंसं निनित्सोः ॥
व्य् एतु दिद्युद् द्विषाम् अशेवा युयोत विष्वग् रपस् तनूनाम् ॥
अवीन् नो अग्निर् हव्यान् नमोभिः प्रेष्ठो अस्मा अधायि स्तोमः ॥
सजूर् देवेभिर् अपां नपातं सखायं कृध्वं शिवो नो अस्तु ॥
अब्जाम् उक्थैर् अहिं गृणीषे बुध्ने नदीनां रजःसु षीदन् ॥
मा नो ऽहिर् बुध्न्यो रिषे धान् मा यज्ञो अस्य स्रिधद् ऋतायोः ॥
उत न एषु नृषु श्रवो धुः प्र राये यन्तु शर्धन्तो अर्यः ॥
तपन्ति शत्रुं स्व1र् ण भूमा महासेनासो अमेभिर् एषाम् ॥
आ यन् नः पत्नीर् गमन्त्य् अच्छा त्वष्टा सुपाणिर् दधातु वीरान् ॥
प्रति नः स्तोमं त्वष्टा जुषेत स्याद् अस्मे अरमतिर् वसूयुः ॥
ता नो रासन् रातिषाचो वसून्य् आ रोदसी वरुणानी शृणोतु ।
वरूत्रीभिः सुशरणो नो अस्तु त्वष्टा सुदत्रो वि दधातु रायः ॥
तन् नो रायः पर्वतास् तन् न आपस् तद् रातिषाच ओषधीर् उत द्यौः ।
वनस्पतिभिः पृथिवी सजोषा उभे रोदसी परि पासतो नः ॥
अनु तद् उर्वी रोदसी जिहाताम् अनु द्युक्षो वरुण इन्द्रसखा ।
अनु विश्वे मरुतो ये सहासो रायः स्याम धरुणं धियध्यै ॥
तन् न इन्द्रो वरुणो मित्रो अग्निर् आप ओषधीर् वनिनो जुषन्त ।
शर्मन् स्याम मरुताम् उपस्थे यूयम् पात स्वस्तिभिः सदा नः ॥
मूल पाठ: Ṛgveda-Saṃhitā · Edition: Theodor Aufrecht Die Hymnen des Rigveda. Mandala I-VI Bonn Mareus Theodor Aufrecht Die Hymnen des Rigveda. Mandala VII-X Bonn Mareus · Data entry Barend A. Van Nooten Gary B. Holland · GRETIL (Göttingen) · CC BY-NC-SA 4.0