भाषा

ENहिગુ
ग्रंथ पाठ

ऋग्वेद · अध्याय 7.032

7.032.01

मो षु त्वा वाघतश् चनारे अस्मन् नि रीरमन् ।
आरात्ताच् चित् सधमादं न आ गहीह वा सन्न् उप श्रुधि ॥

7.032.02

इमे हि ते ब्रह्मकृतः सुते सचा मधौ न मक्ष आसते ।
इन्द्रे कामं जरितारो वसूयवो रथे न पादम् आ दधुः ॥

7.032.03

रायस्कामो वज्रहस्तं सुदक्षिणम् पुत्रो न पितरं हुवे ॥

7.032.04

इम इन्द्राय सुन्विरे सोमासो दध्याशिरः ।
ताँ आ मदाय वज्रहस्त पीतये हरिभ्यां याह्य् ओक आ ॥

7.032.05

श्रवच् छ्रुत्कर्ण ईयते वसूनां नू चिन् नो मर्धिषद् गिरः ।
सद्यश् चिद् यः सहस्राणि शता ददन् नकिर् दित्सन्तम् आ मिनत् ॥

7.032.06

स वीरो अप्रतिष्कुत इन्द्रेण शूशुवे नृभिः ।
यस् ते गभीरा सवनानि वृत्रहन् सुनोत्य् आ च धावति ॥

7.032.07

भवा वरूथम् मघवन् मघोनां यत् समजासि शर्धतः ।
वि त्वाहतस्य वेदनम् भजेमह्य् आ दूणाशो भरा गयम् ॥

7.032.08

सुनोता सोमपाव्ने सोमम् इन्द्राय वज्रिणे ।
पचता पक्तीर् अवसे कृणुध्वम् इत् पृणन्न् इत् पृणते मयः ॥

7.032.09

मा स्रेधत सोमिनो दक्षता महे कृणुध्वं राय आतुजे ।
तरणिर् इज् जयति क्षेति पुष्यति न देवासः कवत्नवे ॥

7.032.10

नकिः सुदासो रथम् पर्य् आस न रीरमत् ।
इन्द्रो यस्याविता यस्य मरुतो गमत् स गोमति व्रजे ॥

7.032.11

गमद् वाजं वाजयन्न् इन्द्र मर्त्यो यस्य त्वम् अविता भुवः ।
अस्माकम् बोध्य् अविता रथानाम् अस्माकं शूर नृणाम् ॥

7.032.12

उद् इन् न्व् अस्य रिच्यते ऽंशो धनं न जिग्युषः ।
य इन्द्रो हरिवान् न दभन्ति तं रिपो दक्षं दधाति सोमिनि ॥

7.032.13

मन्त्रम् अखर्वं सुधितं सुपेशसं दधात यज्ञियेष्व् आ ।
पूर्वीश् चन प्रसितयस् तरन्ति तं य इन्द्रे कर्मणा भुवत् ॥

7.032.14

कस् तम् इन्द्र त्वावसुम् आ मर्त्यो दधर्षति ।
श्रद्धा इत् ते मघवन् पार्ये दिवि वाजी वाजं सिषासति ॥

7.032.15

मघोनः स्म वृत्रहत्येषु चोदय ये ददति प्रिया वसु ।
तव प्रणीती हर्यश्व सूरिभिर् विश्वा तरेम दुरिता ॥

7.032.16

तवेद् इन्द्रावमं वसु त्वम् पुष्यसि मध्यमम् ।
सत्रा विश्वस्य परमस्य राजसि नकिष् ट्वा गोषु वृण्वते ॥

7.032.17

त्वं विश्वस्य धनदा असि श्रुतो य ईम् भवन्त्य् आजयः ।
तवायं विश्वः पुरुहूत पार्थिवो ऽवस्युर् नाम भिक्षते ॥

7.032.18

यद् इन्द्र यावतस् त्वम् एतावद् अहम् ईशीय ।
स्तोतारम् इद् दिधिषेय रदावसो न पापत्वाय रासीय ॥

7.032.19

शिक्षेयम् इन् महयते दिवे-दिवे राय आ कुहचिद्विदे ।
नहि त्वद् अन्यन् मघवन् न आप्यं वस्यो अस्ति पिता चन ॥

7.032.20

तरणिर् इत् सिषासति वाजम् पुरंध्या युजा ।
आ व इन्द्रम् पुरुहूतं नमे गिरा नेमिं तष्टेव सुद्र्वम् ॥

7.032.21

न दुष्टुती मर्त्यो विन्दते वसु न स्रेधन्तं रयिर् नशत् ।
सुशक्तिर् इन् मघवन् तुभ्यम् मावते देष्णं यत् पार्ये दिवि ॥

7.032.22

अभि त्वा शूर नोनुमो ऽदुग्धा इव धेनवः ।
ईशानम् अस्य जगतः स्वर्दृशम् ईशानम् इन्द्र तस्थुषः ॥

7.032.23

न त्वावाँ अन्यो दिव्यो न पार्थिवो न जातो न जनिष्यते ।
अश्वायन्तो मघवन्न् इन्द्र वाजिनो गव्यन्तस् त्वा हवामहे ॥

7.032.24

अभी षतस् तद् आ भरेन्द्र ज्यायः कनीयसः ।
पुरूवसुर् हि मघवन् सनाद् असि भरे-भरे च हव्यः ॥

7.032.25

परा णुदस्व मघवन्न् अमित्रान् सुवेदा नो वसू कृधि ।
अस्माकम् बोध्य् अविता महाधने भवा वृधः सखीनाम् ॥

7.032.26

इन्द्र क्रतुं न आ भर पिता पुत्रेभ्यो यथा ।
शिक्षा णो अस्मिन् पुरुहूत यामनि जीवा ज्योतिर् अशीमहि ॥

7.032.27

मा नो अज्ञाता वृजना दुराध्यो3 माशिवासो अव क्रमुः ।
त्वया वयम् प्रवतः शश्वतीर् अपो ऽति शूर तरामसि ॥

मूल पाठ: Ṛgveda-Saṃhitā · Edition: Theodor Aufrecht Die Hymnen des Rigveda. Mandala I-VI Bonn Mareus Theodor Aufrecht Die Hymnen des Rigveda. Mandala VII-X Bonn Mareus · Data entry Barend A. Van Nooten Gary B. Holland · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc