भाषा

ENहिગુ
ग्रंथ पाठ

ऋग्वेद · अध्याय 7.031

7.031.01

प्र व इन्द्राय मादनं हर्यश्वाय गायत ।
सखायः सोमपाव्ने ॥

7.031.02

शंसेद् उक्थं सुदानव उत द्युक्षं यथा नरः ।
चकृमा सत्यराधसे ॥

7.031.03

त्वं न इन्द्र वाजयुस् त्वं गव्युः शतक्रतो ।
त्वं हिरण्ययुर् वसो ॥

7.031.04

वयम् इन्द्र त्वायवो ऽभि प्र णोनुमो वृषन् ।
विद्धी त्व् अ1स्य नो वसो ॥

7.031.05

मा नो निदे च वक्तवे ऽर्यो रन्धीर् अराव्णे ।
त्वे अपि क्रतुर् मम ॥

7.031.06

त्वं वर्मासि सप्रथः पुरोयोधश् च वृत्रहन् ।
त्वया प्रति ब्रुवे युजा ॥

7.031.07

महाँ उतासि यस्य ते ऽनु स्वधावरी सहः ।
मम्नाते इन्द्र रोदसी ॥

7.031.08

तं त्वा मरुत्वती परि भुवद् वाणी सयावरी ।
नक्षमाणा सह द्युभिः ॥

7.031.09

ऊर्ध्वासस् त्वान्व् इन्दवो भुवन् दस्मम् उप द्यवि ।
सं ते नमन्त कृष्टयः ॥

7.031.10

प्र वो महे महिवृधे भरध्वम् प्रचेतसे प्र सुमतिं कृणुध्वम् ।
विशः पूर्वीः प्र चरा चर्षणिप्राः ॥

7.031.11

उरुव्यचसे महिने सुवृक्तिम् इन्द्राय ब्रह्म जनयन्त विप्राः ।
तस्य व्रतानि न मिनन्ति धीराः ॥

7.031.12

इन्द्रं वाणीर् अनुत्तमन्युम् एव सत्रा राजानं दधिरे सहध्यै ।
हर्यश्वाय बर्हया सम् आपीन् ॥

मूल पाठ: Ṛgveda-Saṃhitā · Edition: Theodor Aufrecht Die Hymnen des Rigveda. Mandala I-VI Bonn Mareus Theodor Aufrecht Die Hymnen des Rigveda. Mandala VII-X Bonn Mareus · Data entry Barend A. Van Nooten Gary B. Holland · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc