भाषा

ENहिગુ
ग्रंथ पाठ

ऋग्वेद · अध्याय 7.024

7.024.01

योनिष् ट इन्द्र सदने अकारि तम् आ नृभिः पुरुहूत प्र याहि ।
असो यथा नो ऽविता वृधे च ददो वसूनि ममदश् च सोमैः ॥

7.024.02

गृभीतं ते मन इन्द्र द्विबर्हाः सुतः सोमः परिषिक्ता मधूनि ।
विसृष्टधेना भरते सुवृक्तिर् इयम् इन्द्रं जोहुवती मनीषा ॥

7.024.03

आ नो दिव आ पृथिव्या ऋजीषिन्न् इदम् बर्हिः सोमपेयाय याहि ।
वहन्तु त्वा हरयो मद्र्यञ्चम् आङ्गूषम् अच्छा तवसम् मदाय ॥

7.024.04

आ नो विश्वाभिर् ऊतिभिः सजोषा ब्रह्म जुषाणो हर्यश्व याहि ।
वरीवृजत् स्थविरेभिः सुशिप्रास्मे दधद् वृषणं शुष्मम् इन्द्र ॥

7.024.05

एष स्तोमो मह उग्राय वाहे धुरी3वात्यो न वाजयन्न् अधायि ।
इन्द्र त्वायम् अर्क ईट्टे वसूनां दिवीव द्याम् अधि नः श्रोमतं धाः ॥

7.024.06

एवा न इन्द्र वार्यस्य पूर्धि प्र ते महीं सुमतिं वेविदाम ।
इषम् पिन्व मघवद्भ्यः सुवीरां यूयम् पात स्वस्तिभिः सदा नः ॥

मूल पाठ: Ṛgveda-Saṃhitā · Edition: Theodor Aufrecht Die Hymnen des Rigveda. Mandala I-VI Bonn Mareus Theodor Aufrecht Die Hymnen des Rigveda. Mandala VII-X Bonn Mareus · Data entry Barend A. Van Nooten Gary B. Holland · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc