भाषा

ENहिગુ
ग्रंथ पाठ

ऋग्वेद · अध्याय 7.023

7.023.01

उद् उ ब्रह्माण्य् ऐरत श्रवस्येन्द्रं समर्ये महया वसिष्ठ ।
आ यो विश्वानि शवसा ततानोपश्रोता म ईवतो वचांसि ॥

7.023.02

अयामि घोष इन्द्र देवजामिर् इरज्यन्त यच् छुरुधो विवाचि ।
नहि स्वम् आयुश् चिकिते जनेषु तानीद् अंहांस्य् अति पर्ष्य् अस्मान् ॥

7.023.03

युजे रथं गवेषणं हरिभ्याम् उप ब्रह्माणि जुजुषाणम् अस्थुः ।
वि बाधिष्ट स्य रोदसी महित्वेन्द्रो वृत्राण्य् अप्रती जघन्वान् ॥

7.023.04

आपश् चित् पिप्युः स्तर्यो3 न गावो नक्षन्न् ऋतं जरितारस् त इन्द्र ।
याहि वायुर् न नियुतो नो अच्छा त्वं हि धीभिर् दयसे वि वाजान् ॥

7.023.05

ते त्वा मदा इन्द्र मादयन्तु शुष्मिणं तुविराधसं जरित्रे ।
एको देवत्रा दयसे हि मर्तान् अस्मिञ् छूर सवने मादयस्व ॥

7.023.06

एवेद् इन्द्रं वृषणं वज्रबाहुं वसिष्ठासो अभ्य् अर्चन्त्य् अर्कैः ।
स नः स्तुतो वीरवद् धातु गोमद् यूयम् पात स्वस्तिभिः सदा नः ॥

मूल पाठ: Ṛgveda-Saṃhitā · Edition: Theodor Aufrecht Die Hymnen des Rigveda. Mandala I-VI Bonn Mareus Theodor Aufrecht Die Hymnen des Rigveda. Mandala VII-X Bonn Mareus · Data entry Barend A. Van Nooten Gary B. Holland · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc