ऋग्वेद · अध्याय 7.025
आ ते मह इन्द्रोत्य् उग्र समन्यवो यत् समरन्त सेनाः ।
पताति दिद्युन् नर्यस्य बाह्वोर् मा ते मनो विष्वद्र्य1ग् वि चारीत् ॥
नि दुर्ग इन्द्र श्नथिह्य् अमित्राँ अभि ये नो मर्तासो अमन्ति ।
आरे तं शंसं कृणुहि निनित्सोर् आ नो भर सम्भरणं वसूनाम् ॥
शतं ते शिप्रिन्न् ऊतयः सुदासे सहस्रं शंसा उत रातिर् अस्तु ।
जहि वधर् वनुषो मर्त्यस्यास्मे द्युम्नम् अधि रत्नं च धेहि ॥
त्वावतो हीन्द्र क्रत्वे अस्मि त्वावतो ऽवितुः शूर रातौ ।
विश्वेद् अहानि तविषीव उग्रँ ओकः कृणुष्व हरिवो न मर्धीः ॥
कुत्सा एते हर्यश्वाय शूषम् इन्द्रे सहो देवजूतम् इयानाः ।
सत्रा कृधि सुहना शूर वृत्रा वयं तरुत्राः सनुयाम वाजम् ॥
एवा न इन्द्र वार्यस्य पूर्धि प्र ते महीं सुमतिं वेविदाम ।
इषम् पिन्व मघवद्भ्यः सुवीरां यूयम् पात स्वस्तिभिः सदा नः ॥
मूल पाठ: Ṛgveda-Saṃhitā · Edition: Theodor Aufrecht Die Hymnen des Rigveda. Mandala I-VI Bonn Mareus Theodor Aufrecht Die Hymnen des Rigveda. Mandala VII-X Bonn Mareus · Data entry Barend A. Van Nooten Gary B. Holland · GRETIL (Göttingen) · CC BY-NC-SA 4.0