ऋग्वेद · अध्याय 7.010
उषो न जारः पृथु पाजो अश्रेद् दविद्युतद् दीद्यच् छोशुचानः ।
वृषा हरिः शुचिर् आ भाति भासा धियो हिन्वान उशतीर् अजीगः ॥
स्व1र् ण वस्तोर् उषसाम् अरोचि यज्ञं तन्वाना उशिजो न मन्म ।
अग्निर् जन्मानि देव आ वि विद्वान् द्रवद् दूतो देवयावा वनिष्ठः ॥
अच्छा गिरो मतयो देवयन्तीर् अग्निं यन्ति द्रविणम् भिक्षमाणाः ।
सुसंदृशं सुप्रतीकं स्वञ्चं हव्यवाहम् अरतिम् मानुषाणाम् ॥
इन्द्रं नो अग्ने वसुभिः सजोषा रुद्रं रुद्रेभिर् आ वहा बृहन्तम् ।
आदित्येभिर् अदितिं विश्वजन्याम् बृहस्पतिम् ऋक्वभिर् विश्ववारम् ॥
मन्द्रं होतारम् उशिजो यविष्ठम् अग्निं विश ईळते अध्वरेषु ।
स हि क्षपावाँ अभवद् रयीणाम् अतन्द्रो दूतो यजथाय देवान् ॥
मूल पाठ: Ṛgveda-Saṃhitā · Edition: Theodor Aufrecht Die Hymnen des Rigveda. Mandala I-VI Bonn Mareus Theodor Aufrecht Die Hymnen des Rigveda. Mandala VII-X Bonn Mareus · Data entry Barend A. Van Nooten Gary B. Holland · GRETIL (Göttingen) · CC BY-NC-SA 4.0