भाषा

ENहिગુ
ग्रंथ पाठ

ऋग्वेद · अध्याय 7.011

7.011.01

महाँ अस्य् अध्वरस्य प्रकेतो न ऋते त्वद् अमृता मादयन्ते ।
आ विश्वेभिः सरथं याहि देवैर् न्य् अग्ने होता प्रथमः सदेह ॥

7.011.02

त्वाम् ईळते अजिरं दूत्याय हविष्मन्तः सदम् इन् मानुषासः ।
यस्य देवैर् आसदो बर्हिर् अग्ने ऽहान्य् अस्मै सुदिना भवन्ति ॥

7.011.03

त्रिश् चिद् अक्तोः प्र चिकितुर् वसूनि त्वे अन्तर् दाशुषे मर्त्याय ।
मनुष्वद् अग्न इह यक्षि देवान् भवा नो दूतो अभिशस्तिपावा ॥

7.011.04

अग्निर् ईशे बृहतो अध्वरस्याग्निर् विश्वस्य हविषः कृतस्य ।
क्रतुं ह्य् अस्य वसवो जुषन्ताथा देवा दधिरे हव्यवाहम् ॥

7.011.05

आग्ने वह हविरद्याय देवान् इन्द्रज्येष्ठास इह मादयन्ताम् ।
इमं यज्ञं दिवि देवेषु धेहि यूयम् पात स्वस्तिभिः सदा नः ॥

मूल पाठ: Ṛgveda-Saṃhitā · Edition: Theodor Aufrecht Die Hymnen des Rigveda. Mandala I-VI Bonn Mareus Theodor Aufrecht Die Hymnen des Rigveda. Mandala VII-X Bonn Mareus · Data entry Barend A. Van Nooten Gary B. Holland · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc