भाषा

ENहिગુ
ग्रंथ पाठ

ऋग्वेद · अध्याय 7.009

7.009.01

अबोधि जार उषसाम् उपस्थाद् धोता मन्द्रः कवितमः पावकः ।
दधाति केतुम् उभयस्य जन्तोर् हव्या देवेषु द्रविणं सुकृत्सु ॥

7.009.02

स सुक्रतुर् यो वि दुरः पणीनाम् पुनानो अर्कम् पुरुभोजसं नः ।
होता मन्द्रो विशां दमूनास् तिरस् तमो ददृशे राम्याणाम् ॥

7.009.03

अमूरः कविर् अदितिर् विवस्वान् सुसंसन् मित्रो अतिथिः शिवो नः ।
चित्रभानुर् उषसाम् भात्य् अग्रे ऽपां गर्भः प्रस्व1 आ विवेश ॥

7.009.04

ईळेन्यो वो मनुषो युगेषु समनगा अशुचज् जातवेदाः ।
सुसंदृशा भानुना यो विभाति प्रति गावः समिधानम् बुधन्त ॥

7.009.05

अग्ने याहि दूत्य1म् मा रिषण्यो देवाँ अच्छा ब्रह्मकृता गणेन ।
सरस्वतीम् मरुतो अश्विनापो यक्षि देवान् रत्नधेयाय विश्वान् ॥

7.009.06

त्वाम् अग्ने समिधानो वसिष्ठो जरूथं हन् यक्षि राये पुरंधिम् ।
पुरुणीथा जातवेदो जरस्व यूयम् पात स्वस्तिभिः सदा नः ॥

मूल पाठ: Ṛgveda-Saṃhitā · Edition: Theodor Aufrecht Die Hymnen des Rigveda. Mandala I-VI Bonn Mareus Theodor Aufrecht Die Hymnen des Rigveda. Mandala VII-X Bonn Mareus · Data entry Barend A. Van Nooten Gary B. Holland · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc