भाषा

ENहिગુ
ग्रंथ पाठ

ऋग्वेद · अध्याय 7.008

7.008.01

इन्धे राजा सम् अर्यो नमोभिर् यस्य प्रतीकम् आहुतं घृतेन ।
नरो हव्येभिर् ईळते सबाध आग्निर् अग्र उषसाम् अशोचि ॥

7.008.02

अयम् उ ष्य सुमहाँ अवेदि होता मन्द्रो मनुषो यह्वो अग्निः ।
वि भा अकः ससृजानः पृथिव्यां कृष्णपविर् ओषधीभिर् ववक्षे ॥

7.008.03

कया नो अग्ने वि वसः सुवृक्तिं काम् उ स्वधाम् ऋणवः शस्यमानः ।
कदा भवेम पतयः सुदत्र रायो वन्तारो दुष्टरस्य साधोः ॥

7.008.04

प्र-प्रायम् अग्निर् भरतस्य शृण्वे वि यत् सूर्यो न रोचते बृहद् भाः ।
अभि यः पूरुम् पृतनासु तस्थौ द्युतानो दैव्यो अतिथिः शुशोच ॥

7.008.05

असन्न् इत् त्वे आहवनानि भूरि भुवो विश्वेभिः सुमना अनीकैः ।
स्तुतश् चिद् अग्ने शृण्विषे गृणानः स्वयं वर्धस्व तन्वं सुजात ॥

7.008.06

इदं वचः शतसाः संसहस्रम् उद् अग्नये जनिषीष्ट द्विबर्हाः ।
शं यत् स्तोतृभ्य आपये भवाति द्युमद् अमीवचातनं रक्षोहा ॥

7.008.07

नू त्वाम् अग्न ईमहे वसिष्ठा ईशानं सूनो सहसो वसूनाम् ।
इषं स्तोतृभ्यो मघवद्भ्य आनड् यूयम् पात स्वस्तिभिः सदा नः ॥

मूल पाठ: Ṛgveda-Saṃhitā · Edition: Theodor Aufrecht Die Hymnen des Rigveda. Mandala I-VI Bonn Mareus Theodor Aufrecht Die Hymnen des Rigveda. Mandala VII-X Bonn Mareus · Data entry Barend A. Van Nooten Gary B. Holland · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc