ऋग्वेद · अध्याय 7.003
अग्निं वो देवम् अग्निभिः सजोषा यजिष्ठं दूतम् अध्वरे कृणुध्वम् ।
यो मर्त्येषु निध्रुविर् ऋतावा तपुर्मूर्धा घृतान्नः पावकः ॥
प्रोथद् अश्वो न यवसे ऽविष्यन् यदा महः संवरणाद् व्य् अस्थात् ।
आद् अस्य वातो अनु वाति शोचिर् अध स्म ते व्रजनं कृष्णम् अस्ति ॥
उद् यस्य ते नवजातस्य वृष्णो ऽग्ने चरन्त्य् अजरा इधानाः ।
अच्छा द्याम् अरुषो धूम एति सं दूतो अग्न ईयसे हि देवान् ॥
वि यस्य ते पृथिव्याम् पाजो अश्रेत् तृषु यद् अन्ना समवृक्त जम्भैः ।
सेनेव सृष्टा प्रसितिष् ट एति यवं न दस्म जुह्वा विवेक्षि ॥
तम् इद् दोषा तम् उषसि यविष्ठम् अग्निम् अत्यं न मर्जयन्त नरः ।
निशिशाना अतिथिम् अस्य योनौ दीदाय शोचिर् आहुतस्य वृष्णः ॥
सुसंदृक् ते स्वनीक प्रतीकं वि यद् रुक्मो न रोचस उपाके ।
दिवो न ते तन्यतुर् एति शुष्मश् चित्रो न सूरः प्रति चक्षि भानुम् ॥
यथा वः स्वाहाग्नये दाशेम परीळाभिर् घृतवद्भिश् च हव्यैः ।
तेभिर् नो अग्ने अमितैर् महोभिः शतम् पूर्भिर् आयसीभिर् नि पाहि ॥
या वा ते सन्ति दाशुषे अधृष्टा गिरो वा याभिर् नृवतीर् उरुष्याः ।
ताभिर् नः सूनो सहसो नि पाहि स्मत् सूरीञ् जरितॄञ् जातवेदः ॥
निर् यत् पूतेव स्वधितिः शुचिर् गात् स्वया कृपा तन्वा3 रोचमानः ।
आ यो मात्रोर् उशेन्यो जनिष्ट देवयज्याय सुक्रतुः पावकः ॥
एता नो अग्ने सौभगा दिदीह्य् अपि क्रतुं सुचेतसं वतेम ।
विश्वा स्तोतृभ्यो गृणते च सन्तु यूयम् पात स्वस्तिभिः सदा नः ॥
मूल पाठ: Ṛgveda-Saṃhitā · Edition: Theodor Aufrecht Die Hymnen des Rigveda. Mandala I-VI Bonn Mareus Theodor Aufrecht Die Hymnen des Rigveda. Mandala VII-X Bonn Mareus · Data entry Barend A. Van Nooten Gary B. Holland · GRETIL (Göttingen) · CC BY-NC-SA 4.0