ऋग्वेद · अध्याय 7.002
जुषस्व नः समिधम् अग्ने अद्य शोचा बृहद् यजतं धूमम् ऋण्वन् ।
उप स्पृश दिव्यं सानु स्तूपैः सं रश्मिभिस् ततनः सूर्यस्य ॥
नराशंसस्य महिमानम् एषाम् उप स्तोषाम यजतस्य यज्ञैः ।
ये सुक्रतवः शुचयो धियंधाः स्वदन्ति देवा उभयानि हव्या ॥
ईळेन्यं वो असुरं सुदक्षम् अन्तर् दूतं रोदसी सत्यवाचम् ।
मनुष्वद् अग्निम् मनुना समिद्धं सम् अध्वराय सदम् इन् महेम ॥
सपर्यवो भरमाणा अभिज्ञु प्र वृञ्जते नमसा बर्हिर् अग्नौ ।
आजुह्वाना घृतपृष्ठम् पृषद्वद् अध्वर्यवो हविषा मर्जयध्वम् ॥
स्वाध्यो3 वि दुरो देवयन्तो ऽशिश्रयू रथयुर् देवताता ।
पूर्वी शिशुं न मातरा रिहाणे सम् अग्रुवो न समनेष्व् अञ्जन् ॥
उत योषणे दिव्ये मही न उषासानक्ता सुदुघेव धेनुः ।
बर्हिषदा पुरुहूते मघोनी आ यज्ञिये सुविताय श्रयेताम् ॥
विप्रा यज्ञेषु मानुषेषु कारू मन्ये वां जातवेदसा यजध्यै ।
ऊर्ध्वं नो अध्वरं कृतं हवेषु ता देवेषु वनथो वार्याणि ॥
आ भारती भारतीभिः सजोषा इळा देवैर् मनुष्येभिर् अग्निः ।
सरस्वती सारस्वतेभिर् अर्वाक् तिस्रो देवीर् बर्हिर् एदं सदन्तु ॥
तन् नस् तुरीपम् अध पोषयित्नु देव त्वष्टर् वि रराणः स्यस्व ।
यतो वीरः कर्मण्यः सुदक्षो युक्तग्रावा जायते देवकामः ॥
वनस्पते ऽव सृजोप देवान् अग्निर् हविः शमिता सूदयाति ।
सेद् उ होता सत्यतरो यजाति यथा देवानां जनिमानि वेद ॥
आ याह्य् अग्ने समिधानो अर्वाङ् इन्द्रेण देवैः सरथं तुरेभिः ।
बर्हिर् न आस्ताम् अदितिः सुपुत्रा स्वाहा देवा अमृता मादयन्ताम् ॥
मूल पाठ: Ṛgveda-Saṃhitā · Edition: Theodor Aufrecht Die Hymnen des Rigveda. Mandala I-VI Bonn Mareus Theodor Aufrecht Die Hymnen des Rigveda. Mandala VII-X Bonn Mareus · Data entry Barend A. Van Nooten Gary B. Holland · GRETIL (Göttingen) · CC BY-NC-SA 4.0