भाषा

ENहिગુ
ग्रंथ पाठ

ऋग्वेद · अध्याय 7.004

7.004.01

प्र वः शुक्राय भानवे भरध्वं हव्यम् मतिं चाग्नये सुपूतम् ।
यो दैव्यानि मानुषा जनूंष्य् अन्तर् विश्वानि विद्मना जिगाति ॥

7.004.02

स गृत्सो अग्निस् तरुणश् चिद् अस्तु यतो यविष्ठो अजनिष्ट मातुः ।
सं यो वना युवते शुचिदन् भूरि चिद् अन्ना सम् इद् अत्ति सद्यः ॥

7.004.03

अस्य देवस्य संसद्य् अनीके यम् मर्तासः श्येतं जगृभ्रे ।
नि यो गृभम् पौरुषेयीम् उवोच दुरोकम् अग्निर् आयवे शुशोच ॥

7.004.04

अयं कविर् अकविषु प्रचेता मर्तेष्व् अग्निर् अमृतो नि धायि ।
स मा नो अत्र जुहुरः सहस्वः सदा त्वे सुमनसः स्याम ॥

7.004.05

आ यो योनिं देवकृतं ससाद क्रत्वा ह्य् अ1ग्निर् अमृताँ अतारीत् ।
तम् ओषधीश् च वनिनश् च गर्भम् भूमिश् च विश्वधायसम् बिभर्ति ॥

7.004.06

ईशे ह्य् अ1ग्निर् अमृतस्य भूरेर् ईशे रायः सुवीर्यस्य दातोः ।
मा त्वा वयं सहसावन्न् अवीरा माप्सवः परि षदाम मादुवः ॥

7.004.07

परिषद्यं ह्य् अरणस्य रेक्णो नित्यस्य रायः पतयः स्याम ।
न शेषो अग्ने अन्यजातम् अस्त्य् अचेतानस्य मा पथो वि दुक्षः ॥

7.004.08

नहि ग्रभायारणः सुशेवो ऽन्योदर्यो मनसा मन्तवा उ ।
अधा चिद् ओकः पुनर् इत् स एत्य् आ नो वाज्य् अभीषाळ् एतु नव्यः ॥

7.004.09

त्वम् अग्ने वनुष्यतो नि पाहि त्वम् उ नः सहसावन्न् अवद्यात् ।
सं त्वा ध्वस्मन्वद् अभ्य् एतु पाथः सं रयिः स्पृहयाय्यः सहस्री ॥

7.004.10

एता नो अग्ने सौभगा दिदीह्य् अपि क्रतुं सुचेतसं वतेम ।
विश्वा स्तोतृभ्यो गृणते च सन्तु यूयम् पात स्वस्तिभिः सदा नः ॥

मूल पाठ: Ṛgveda-Saṃhitā · Edition: Theodor Aufrecht Die Hymnen des Rigveda. Mandala I-VI Bonn Mareus Theodor Aufrecht Die Hymnen des Rigveda. Mandala VII-X Bonn Mareus · Data entry Barend A. Van Nooten Gary B. Holland · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc