भाषा

ENहिગુ
ग्रंथ पाठ

ऋग्वेद · अध्याय 7.001

7.001.01

अग्निं नरो दीधितिभिर् अरण्योर् हस्तच्युती जनयन्त प्रशस्तम् ।
दूरेदृशं गृहपतिम् अथर्युम् ॥

7.001.02

तम् अग्निम् अस्ते वसवो न्य् ऋण्वन् सुप्रतिचक्षम् अवसे कुतश् चित् ।
दक्षाय्यो यो दम आस नित्यः ॥

7.001.03

प्रेद्धो अग्ने दीदिहि पुरो नो ऽजस्रया सूर्म्या यविष्ठ ।
त्वां शश्वन्त उप यन्ति वाजाः ॥

7.001.04

प्र ते अग्नयो ऽग्निभ्यो वरं निः सुवीरासः शोशुचन्त द्युमन्तः ।
यत्रा नरः समासते सुजाताः ॥

7.001.05

दा नो अग्ने धिया रयिं सुवीरं स्वपत्यं सहस्य प्रशस्तम् ।
न यं यावा तरति यातुमावान् ॥

7.001.06

उप यम् एति युवतिः सुदक्षं दोषा वस्तोर् हविष्मती घृताची ।
उप स्वैनम् अरमतिर् वसूयुः ॥

7.001.07

विश्वा अग्ने ऽप दहारातीर् येभिस् तपोभिर् अदहो जरूथम् ।
प्र निस्वरं चातयस्वामीवाम् ॥

7.001.08

आ यस् ते अग्न इधते अनीकं वसिष्ठ शुक्र दीदिवः पावक ।
उतो न एभिः स्तवथैर् इह स्याः ॥

7.001.09

वि ये ते अग्ने भेजिरे अनीकम् मर्ता नरः पित्र्यासः पुरुत्रा ।
उतो न एभिः सुमना इह स्याः ॥

7.001.10

इमे नरो वृत्रहत्येषु शूरा विश्वा अदेवीर् अभि सन्तु मायाः ।
ये मे धियम् पनयन्त प्रशस्ताम् ॥

7.001.11

मा शूने अग्ने नि षदाम नृणाम् माशेषसो ऽवीरता परि त्वा ।
प्रजावतीषु दुर्यासु दुर्य ॥

7.001.12

यम् अश्वी नित्यम् उपयाति यज्ञम् प्रजावन्तं स्वपत्यं क्षयं नः ।
स्वजन्मना शेषसा वावृधानम् ॥

7.001.13

पाहि नो अग्ने रक्षसो अजुष्टात् पाहि धूर्तेर् अररुषो अघायोः ।
त्वा युजा पृतनायूँर् अभि ष्याम् ॥

7.001.14

सेद् अग्निर् अग्नीँर् अत्य् अस्त्व् अन्यान् यत्र वाजी तनयो वीळुपाणिः ।
सहस्रपाथा अक्षरा समेति ॥

7.001.15

सेद् अग्निर् यो वनुष्यतो निपाति समेद्धारम् अंहस उरुष्यात् ।
सुजातासः परि चरन्ति वीराः ॥

7.001.16

अयं सो अग्निर् आहुतः पुरुत्रा यम् ईशानः सम् इद् इन्धे हविष्मान् ।
परि यम् एत्य् अध्वरेषु होता ॥

7.001.17

त्वे अग्न आहवनानि भूरीशानास आ जुहुयाम नित्या ।
उभा कृण्वन्तो वहतू मियेधे ॥

7.001.18

इमो अग्ने वीततमानि हव्याजस्रो वक्षि देवतातिम् अच्छ ।
प्रति न ईं सुरभीणि व्यन्तु ॥

7.001.19

मा नो अग्ने ऽवीरते परा दा दुर्वाससे ऽमतये मा नो अस्यै ।
मा नः क्षुधे मा रक्षस ऋतावो मा नो दमे मा वन आ जुहूर्थाः ॥

7.001.20

नू मे ब्रह्माण्य् अग्न उच् छशाधि त्वं देव मघवद्भ्यः सुषूदः ।
रातौ स्यामोभयास आ ते यूयम् पात स्वस्तिभिः सदा नः ॥

7.001.21

त्वम् अग्ने सुहवो रण्वसंदृक् सुदीती सूनो सहसो दिदीहि ।
मा त्वे सचा तनये नित्य आ धङ् मा वीरो अस्मन् नर्यो वि दासीत् ॥

7.001.22

मा नो अग्ने दुर्भृतये सचैषु देवेद्धेष्व् अग्निषु प्र वोचः ।
मा ते अस्मान् दुर्मतयो भृमाच् चिद् देवस्य सूनो सहसो नशन्त ॥

7.001.23

स मर्तो अग्ने स्वनीक रेवान् अमर्त्ये य आजुहोति हव्यम् ।
स देवता वसुवनिं दधाति यं सूरिर् अर्थी पृच्छमान एति ॥

7.001.24

महो नो अग्ने सुवितस्य विद्वान् रयिं सूरिभ्य आ वहा बृहन्तम् ।
येन वयं सहसावन् मदेमाविक्षितास आयुषा सुवीराः ॥

7.001.25

नू मे ब्रह्माण्य् अग्न उच् छशाधि त्वं देव मघवद्भ्यः सुषूदः ।
रातौ स्यामोभयास आ ते यूयम् पात स्वस्तिभिः सदा नः ॥

मूल पाठ: Ṛgveda-Saṃhitā · Edition: Theodor Aufrecht Die Hymnen des Rigveda. Mandala I-VI Bonn Mareus Theodor Aufrecht Die Hymnen des Rigveda. Mandala VII-X Bonn Mareus · Data entry Barend A. Van Nooten Gary B. Holland · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc