ऋग्वेद · अध्याय 6.068
श्रुष्टी वां यज्ञ उद्यतः सजोषा मनुष्वद् वृक्तबर्हिषो यजध्यै ।
आ य इन्द्रावरुणाव् इषे अद्य महे सुम्नाय मह आववर्तत् ॥
ता हि श्रेष्ठा देवताता तुजा शूराणां शविष्ठा ता हि भूतम् ।
मघोनाम् मंहिष्ठा तुविशुष्म ऋतेन वृत्रतुरा सर्वसेना ॥
ता गृणीहि नमस्येभिः शूषैः सुम्नेभिर् इन्द्रावरुणा चकाना ।
वज्रेणान्यः शवसा हन्ति वृत्रं सिषक्त्य् अन्यो वृजनेषु विप्रः ॥
ग्नाश् च यन् नरश् च वावृधन्त विश्वे देवासो नरां स्वगूर्ताः ।
प्रैभ्य इन्द्रावरुणा महित्वा द्यौश् च पृथिवि भूतम् उर्वी ॥
स इत् सुदानुः स्ववाँ ऋतावेन्द्रा यो वां वरुण दाशति त्मन् ।
इषा स द्विषस् तरेद् दास्वान् वंसद् रयिं रयिवतश् च जनान् ॥
यं युवं दाश्वध्वराय देवा रयिं धत्थो वसुमन्तम् पुरुक्षुम् ।
अस्मे स इन्द्रावरुणाव् अपि ष्यात् प्र यो भनक्ति वनुषाम् अशस्तीः ॥
उत नः सुत्रात्रो देवगोपाः सूरिभ्य इन्द्रावरुणा रयिः ष्यात् ।
येषां शुष्मः पृतनासु साह्वान् प्र सद्यो द्युम्ना तिरते ततुरिः ॥
नू न इन्द्रावरुणा गृणाना पृङ्क्तं रयिं सौश्रवसाय देवा ।
इत्था गृणन्तो महिनस्य शर्धो ऽपो न नावा दुरिता तरेम ॥
प्र सम्राजे बृहते मन्म नु प्रियम् अर्च देवाय वरुणाय सप्रथः ।
अयं य उर्वी महिना महिव्रतः क्रत्वा विभात्य् अजरो न शोचिषा ॥
इन्द्रावरुणा सुतपाव् इमं सुतं सोमम् पिबतम् मद्यं धृतव्रता ।
युवो रथो अध्वरं देववीतये प्रति स्वसरम् उप याति पीतये ॥
इन्द्रावरुणा मधुमत्तमस्य वृष्णः सोमस्य वृषणा वृषेथाम् ।
इदं वाम् अन्धः परिषिक्तम् अस्मे आसद्यास्मिन् बर्हिषि मादयेथाम् ॥
मूल पाठ: Ṛgveda-Saṃhitā · Edition: Theodor Aufrecht Die Hymnen des Rigveda. Mandala I-VI Bonn Mareus Theodor Aufrecht Die Hymnen des Rigveda. Mandala VII-X Bonn Mareus · Data entry Barend A. Van Nooten Gary B. Holland · GRETIL (Göttingen) · CC BY-NC-SA 4.0