ऋग्वेद · अध्याय 6.067
विश्वेषां वः सतां ज्येष्ठतमा गीर्भिर् मित्रावरुणा वावृधध्यै ।
सं या रश्मेव यमतुर् यमिष्ठा द्वा जनाँ असमा बाहुभिः स्वैः ॥
इयम् मद् वाम् प्र स्तृणीते मनीषोप प्रिया नमसा बर्हिर् अच्छ ।
यन्तं नो मित्रावरुणाव् अधृष्टं छर्दिर् यद् वां वरूथ्यं सुदानू ॥
आ यातम् मित्रावरुणा सुशस्त्य् उप प्रिया नमसा हूयमाना ।
सं याव् अप्नःस्थो अपसेव जनाञ् छ्रुधीयतश् चिद् यतथो महित्वा ॥
अश्वा न या वाजिना पूतबन्धू ऋता यद् गर्भम् अदितिर् भरध्यै ।
प्र या महि महान्ता जायमाना घोरा मर्ताय रिपवे नि दीधः ॥
विश्वे यद् वाम् मंहना मन्दमानाः क्षत्रं देवासो अदधुः सजोषाः ।
परि यद् भूथो रोदसी चिद् उर्वी सन्ति स्पशो अदब्धासो अमूराः ॥
ता हि क्षत्रं धारयेथे अनु द्यून् दृंहेथे सानुम् उपमाद् इव द्योः ।
दृळ्हो नक्षत्र उत विश्वदेवो भूमिम् आतान् द्यां धासिनायोः ॥
ता विग्रं धैथे जठरम् पृणध्या आ यत् सद्म सभृतयः पृणन्ति ।
न मृष्यन्ते युवतयो ऽवाता वि यत् पयो विश्वजिन्वा भरन्ते ॥
ता जिह्वया सदम् एदं सुमेधा आ यद् वां सत्यो अरतिर् ऋते भूत् ।
तद् वाम् महित्वं घृतान्नाव् अस्तु युवं दाशुषे वि चयिष्टम् अंहः ॥
प्र यद् वाम् मित्रावरुणा स्पूर्धन् प्रिया धाम युवधिता मिनन्ति ।
न ये देवास ओहसा न मर्ता अयज्ञसाचो अप्यो न पुत्राः ॥
वि यद् वाचं कीस्तासो भरन्ते शंसन्ति के चिन् निविदो मनानाः ।
आद् वाम् ब्रवाम सत्यान्य् उक्था नकिर् देवेभिर् यतथो महित्वा ॥
अवोर् इत्था वां छर्दिषो अभिष्टौ युवोर् मित्रावरुणाव् अस्कृधोयु ।
अनु यद् गावः स्फुरान् ऋजिप्यं धृष्णुं यद् रणे वृषणं युनजन् ॥
मूल पाठ: Ṛgveda-Saṃhitā · Edition: Theodor Aufrecht Die Hymnen des Rigveda. Mandala I-VI Bonn Mareus Theodor Aufrecht Die Hymnen des Rigveda. Mandala VII-X Bonn Mareus · Data entry Barend A. Van Nooten Gary B. Holland · GRETIL (Göttingen) · CC BY-NC-SA 4.0