भाषा

ENहिગુ
ग्रंथ पाठ

ऋग्वेद · अध्याय 6.069

6.069.01

सं वां कर्मणा सम् इषा हिनोमीन्द्राविष्णू अपसस् पारे अस्य ।
जुषेथां यज्ञं द्रविणं च धत्तम् अरिष्टैर् नः पथिभिः पारयन्ता ॥

6.069.02

या विश्वासां जनितारा मतीनाम् इन्द्राविष्णू कलशा सोमधाना ।
प्र वां गिरः शस्यमाना अवन्तु प्र स्तोमासो गीयमानासो अर्कैः ॥

6.069.03

इन्द्राविष्णू मदपती मदानाम् आ सोमं यातं द्रविणो दधाना ।
सं वाम् अञ्जन्त्व् अक्तुभिर् मतीनां सं स्तोमासः शस्यमानास उक्थैः ॥

6.069.04

आ वाम् अश्वासो अभिमातिषाह इन्द्राविष्णू सधमादो वहन्तु ।
जुषेथां विश्वा हवना मतीनाम् उप ब्रह्माणि शृणुतं गिरो मे ॥

6.069.05

इन्द्राविष्णू तत् पनयाय्यं वां सोमस्य मद उरु चक्रमाथे ।
अकृणुतम् अन्तरिक्षं वरीयो ऽप्रथतं जीवसे नो रजांसि ॥

6.069.06

इन्द्राविष्णू हविषा वावृधानाग्राद्वाना नमसा रातहव्या ।
घृतासुती द्रविणं धत्तम् अस्मे समुद्रः स्थः कलशः सोमधानः ॥

6.069.07

इन्द्राविष्णू पिबतम् मध्वो अस्य सोमस्य दस्रा जठरम् पृणेथाम् ।
आ वाम् अन्धांसि मदिराण्य् अग्मन्न् उप ब्रह्माणि शृणुतं हवम् मे ॥

6.069.08

उभा जिग्यथुर् न परा जयेथे न परा जिग्ये कतरश् चनैनोः ।
इन्द्रश् च विष्णो यद् अपस्पृधेथां त्रेधा सहस्रं वि तद् ऐरयेथाम् ॥

मूल पाठ: Ṛgveda-Saṃhitā · Edition: Theodor Aufrecht Die Hymnen des Rigveda. Mandala I-VI Bonn Mareus Theodor Aufrecht Die Hymnen des Rigveda. Mandala VII-X Bonn Mareus · Data entry Barend A. Van Nooten Gary B. Holland · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc