ऋग्वेद · अध्याय 6.054
सम् पूषन् विदुषा नय यो अञ्जसानुशासति ।
य एवेदम् इति ब्रवत् ॥
सम् उ पूष्णा गमेमहि यो गृहाँ अभिशासति ।
इम एवेति च ब्रवत् ॥
पूष्णश् चक्रं न रिष्यति न कोशो ऽव पद्यते ।
नो अस्य व्यथते पविः ॥
यो अस्मै हविषाविधन् न तम् पूषापि मृष्यते ।
प्रथमो विन्दते वसु ॥
पूषा गा अन्व् एतु नः पूषा रक्षत्व् अर्वतः ।
पूषा वाजं सनोतु नः ॥
पूषन्न् अनु प्र गा इहि यजमानस्य सुन्वतः ।
अस्माकं स्तुवताम् उत ॥
माकिर् नेशन् माकीं रिषन् माकीं सं शारि केवटे ।
अथारिष्टाभिर् आ गहि ॥
शृण्वन्तम् पूषणं वयम् इर्यम् अनष्टवेदसम् ।
ईशानं राय ईमहे ॥
पूषन् तव व्रते वयं न रिष्येम कदा चन ।
स्तोतारस् त इह स्मसि ॥
परि पूषा परस्ताद् धस्तं दधातु दक्षिणम् ।
पुनर् नो नष्टम् आजतु ॥
मूल पाठ: Ṛgveda-Saṃhitā · Edition: Theodor Aufrecht Die Hymnen des Rigveda. Mandala I-VI Bonn Mareus Theodor Aufrecht Die Hymnen des Rigveda. Mandala VII-X Bonn Mareus · Data entry Barend A. Van Nooten Gary B. Holland · GRETIL (Göttingen) · CC BY-NC-SA 4.0