ऋग्वेद · अध्याय 6.055
एहि वां विमुचो नपाद् आघृणे सं सचावहै ।
रथीर् ऋतस्य नो भव ॥
रथीतमं कपर्दिनम् ईशानं राधसो महः ।
रायः सखायम् ईमहे ॥
रायो धारास्य् आघृणे वसो राशिर् अजाश्व ।
धीवतो-धीवतः सखा ॥
पूषणं न्व् अ1जाश्वम् उप स्तोषाम वाजिनम् ।
स्वसुर् यो जार उच्यते ॥
मातुर् दिधिषुम् अब्रवं स्वसुर् जारः शृणोतु नः ।
भ्रातेन्द्रस्य सखा मम ॥
आजासः पूषणं रथे निशृम्भास् ते जनश्रियम् ।
देवं वहन्तु बिभ्रतः ॥
मूल पाठ: Ṛgveda-Saṃhitā · Edition: Theodor Aufrecht Die Hymnen des Rigveda. Mandala I-VI Bonn Mareus Theodor Aufrecht Die Hymnen des Rigveda. Mandala VII-X Bonn Mareus · Data entry Barend A. Van Nooten Gary B. Holland · GRETIL (Göttingen) · CC BY-NC-SA 4.0