भाषा

ENहिગુ
ग्रंथ पाठ

ऋग्वेद · अध्याय 6.053

6.053.01

वयम् उ त्वा पथस् पते रथं न वाजसातये ।
धिये पूषन्न् अयुज्महि ॥

6.053.02

अभि नो नर्यं वसु वीरम् प्रयतदक्षिणम् ।
वामं गृहपतिं नय ॥

6.053.03

अदित्सन्तं चिद् आघृणे पूषन् दानाय चोदय ।
पणेश् चिद् वि म्रदा मनः ॥

6.053.04

वि पथो वाजसातये चिनुहि वि मृधो जहि ।
साधन्ताम् उग्र नो धियः ॥

6.053.05

परि तृन्धि पणीनाम् आरया हृदया कवे ।
अथेम् अस्मभ्यं रन्धय ॥

6.053.06

वि पूषन्न् आरया तुद पणेर् इच्छ हृदि प्रियम् ।
अथेम् अस्मभ्यं रन्धय ॥

6.053.07

आ रिख किकिरा कृणु पणीनां हृदया कवे ।
अथेम् अस्मभ्यं रन्धय ॥

6.053.08

याम् पूषन् ब्रह्मचोदनीम् आराम् बिभर्ष्य् आघृणे ।
तया समस्य हृदयम् आ रिख किकिरा कृणु ॥

6.053.09

या ते अष्ट्रा गोओपशाघृणे पशुसाधनी ।
तस्यास् ते सुम्नम् ईमहे ॥

6.053.10

उत नो गोषणिं धियम् अश्वसां वाजसाम् उत ।
नृवत् कृणुहि वीतये ॥

मूल पाठ: Ṛgveda-Saṃhitā · Edition: Theodor Aufrecht Die Hymnen des Rigveda. Mandala I-VI Bonn Mareus Theodor Aufrecht Die Hymnen des Rigveda. Mandala VII-X Bonn Mareus · Data entry Barend A. Van Nooten Gary B. Holland · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc