भाषा

ENहिગુ
ग्रंथ पाठ

ऋग्वेद · अध्याय 6.050

6.050.01

हुवे वो देवीम् अदितिं नमोभिर् मृळीकाय वरुणम् मित्रम् अग्निम् ।
अभिक्षदाम् अर्यमणं सुशेवं त्रातॄन् देवान् सवितारम् भगं च ॥

6.050.02

सुज्योतिषः सूर्य दक्षपितॄन् अनागास्त्वे सुमहो वीहि देवान् ।
द्विजन्मानो य ऋतसापः सत्याः स्वर्वन्तो यजता अग्निजिह्वाः ॥

6.050.03

उत द्यावापृथिवी क्षत्रम् उरु बृहद् रोदसी शरणं सुषुम्ने ।
महस् करथो वरिवो यथा नो ऽस्मे क्षयाय धिषणे अनेहः ॥

6.050.04

आ नो रुद्रस्य सूनवो नमन्ताम् अद्या हूतासो वसवो ऽधृष्टाः ।
यद् ईम् अर्भे महति वा हितासो बाधे मरुतो अह्वाम देवान् ॥

6.050.05

मिम्यक्ष येषु रोदसी नु देवी सिषक्ति पूषा अभ्यर्धयज्वा ।
श्रुत्वा हवम् मरुतो यद् ध याथ भूमा रेजन्ते अध्वनि प्रविक्ते ॥

6.050.06

अभि त्यं वीरं गिर्वणसम् अर्चेन्द्रम् ब्रह्मणा जरितर् नवेन ।
श्रवद् इद् धवम् उप च स्तवानो रासद् वाजाँ उप महो गृणानः ॥

6.050.07

ओमानम् आपो मानुषीर् अमृक्तं धात तोकाय तनयाय शं योः ।
यूयं हि ष्ठा भिषजो मातृतमा विश्वस्य स्थातुर् जगतो जनित्रीः ॥

6.050.08

आ नो देवः सविता त्रायमाणो हिरण्यपाणिर् यजतो जगम्यात् ।
यो दत्रवाँ उषसो न प्रतीकं व्यूर्णुते दाशुषे वार्याणि ॥

6.050.09

उत त्वं सूनो सहसो नो अद्या देवाँ अस्मिन्न् अध्वरे ववृत्याः ।
स्याम् अहं ते सदम् इद् रातौ तव स्याम् अग्ने ऽवसा सुवीरः ॥

6.050.10

उत त्या मे हवम् आ जग्म्यातं नासत्या धीभिर् युवम् अङ्ग विप्रा ।
अत्रिं न महस् तमसो ऽमुमुक्तं तूर्वतं नरा दुरिताद् अभीके ॥

6.050.11

ते नो रायो द्युमतो वाजवतो दातारो भूत नृवतः पुरुक्षोः ।
दशस्यन्तो दिव्याः पार्थिवासो गोजाता अप्या मृळता च देवाः ॥

6.050.12

ते नो रुद्रः सरस्वती सजोषा मीळ्हुष्मन्तो विष्णुर् मृळन्तु वायुः ।
ऋभुक्षा वाजो दैव्यो विधाता पर्जन्यावाता पिप्यताम् इषं नः ॥

6.050.13

उत स्य देवः सविता भगो नो ऽपां नपाद् अवतु दानु पप्रिः ।
त्वष्टा देवेभिर् जनिभिः सजोषा द्यौर् देवेभिः पृथिवी समुद्रैः ॥

6.050.14

उत नो ऽहिर् बुध्न्यः शृणोत्व् अज एकपात् पृथिवी समुद्रः ।
विश्वे देवा ऋतावृधो हुवानाः स्तुता मन्त्राः कविशस्ता अवन्तु ॥

6.050.15

एवा नपातो मम तस्य धीभिर् भरद्वाजा अभ्य् अर्चन्त्य् अर्कैः ।
ग्ना हुतासो वसवो ऽधृष्टा विश्वे स्तुतासो भूता यजत्राः ॥

मूल पाठ: Ṛgveda-Saṃhitā · Edition: Theodor Aufrecht Die Hymnen des Rigveda. Mandala I-VI Bonn Mareus Theodor Aufrecht Die Hymnen des Rigveda. Mandala VII-X Bonn Mareus · Data entry Barend A. Van Nooten Gary B. Holland · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc